________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
102 विशेषा. मानानां युगलधर्मिणां जिलेन्द्रियादिमानं याच्याङ्गुलेन गृह्यते, तदा संव्यवहारे करपद्रुमरसादिपरिज्ञानलक्षणे विरुध्येत न घटेतेत्यर्थः । इदमुक्तं भवति-"बाहल्लभो य सम्बाई अंगुलअसंखभाग, एमेव हुत्तओ, नवरं अंगुल'हुत्त रसणं" इत्यादिवचनादालपृथक्त्वविस्तर जिदेन्द्रिय निर्णीतम् । त्रिगव्यूतादिमानानां च जन्तूनां तदनुसारितया विशालानि मुखानि,जिहा च । ततो याच्याङ्गुलेन तेषां पुरमाकारतयोक्तस्य जिहेन्द्रियस्याऽकुलपृथक्त्वलक्षणो विस्तरो गृखेत, तदाऽत्यल्पतया सर्वामपि जिहान व्याप्नुयात्। ततश्च सर्वयाऽपि तया रसवेदनलक्षणो व्यवहारो न घटेत । तस्मादात्माजुलेनैव जिहादिमानं घटते । ततश्च देहात्मभूतानीन्द्रियाण्यपि सर्वाण्युच्छ्याजुलेन यदा न मीयन्ते, तदेन्द्रियविषयपरिमाणस्य दूरे वार्ता, इति भावः ।। इति गाथार्थः ॥ ३४३॥
तदेवं "उस्सेहपमाणओ मिणे देह" इत्यत्र पारिश याद् देहशब्देन यल्लभ्यते, तद् दर्शयन्नाह
तणुमाणं चिय तेणं हैविज भणियं सुए वि तं चेव । एएण देहमाणाई नारयाईणमिति ॥ ३४४ ॥
तस्मादिन्द्रियपरिमाणे, इन्द्रियविषयपरिमाणे चैकान्तेनोच्छ्याङ्गुलेनेष्यमाणे दोषस्य दर्शितत्वात् पारिशेष्यात् तनुमानमेव तेनोत्सेधाङ्गुलेन भवेत् , न पुनरिन्द्रियपरिमाण, तद्विषयपरिमाणं चेति भावः । युगलधर्मिणां रसवेदनव्यवहारस्य, चक्रवर्तिभरतनगर्यादिषु भेर्यादिशब्दश्रवणव्यवहारस्य चाभावप्रसङ्गस्य दर्शितत्वादिति । किञ्च, इन्द्रियपरिमाणं, तद्विषयपरिमाणं चोच्छ्याङलेन पर स्वमनी. पिकयार्थापत्यैव ब्रूते, न पुनः श्रुते साक्षादेतत् काऽप्यभिहितम् । किं पुनस्तर्हि साक्षात् सत्राभिहितम् ?, इत्याह-भणियं सुए वित चेवेत्यादि' श्रुतेऽपि तदेव देहमानमेवोच्छ्याङ्गुलेन भणितं, नाऽन्यदिति । केन पुनर्ग्रन्थेनैतच्छूतेऽभिहितम् १, इत्याह- 'एएणेत्यादि' अर्थनिर्देश एवाऽयं, सूत्रालापकस्त्वेष द्रष्टव्यः, तद्यथा- "ईच्चेएणं उस्सेहंगुणापमाणेणं नेरइअ-तिरिक्खजोणिय-मणुस्स-देवाणं सरीरोगाहणाउ मिजति"। तदस्मिन् सूत्रे शरीरावगाहनवोच्छ्रयाङ्गुलमेयत्वेनोक्ता, न त्विन्द्रियविषयपरिमाणात ततस्तदात्माङ्गलेनैव द्रष्टव्यम, इति स्थितम् ।। इति गाथार्थः ।। ३४४॥ - अथ परः सिद्धान्तस्य पूर्वापरविरोधमुद्भावयन्नाहबाहुल्यतश्च सर्वाण्यङ्गुलासंख्यभागम्, एवमेव पृथक्त्वतः, नवरमङ्गुलपृथक्त्वं रसनम् । २ घ. 'पुहत्त'। ३ उत्सेधप्रमाणतो मिनुयात् वेहम्। ।
तनुमानमेव तेन भवेद् भणितं सूत्रेऽपि तदेव । एतेन देहमानानि नारकादीनां मीयन्से ॥ ३४॥ ५ घ.छ. 'हवेज्ज'। ६ घ.छ. 'रगाई।
क.ग. 'मिच्छति'। इत्येतेनोत्सेधाकुलप्रमाणेन नैरयिक-तिर्यग्योनिक-मनुष्य-वेवानां शारीराषगाहना मीयन्ते । लक्खेहिं एकवीसाए साइरेगेहिं पुक्खरडम्मि । उदये पेच्छति नरा सूर उक्कोसए दिवसे ॥ ३४५॥
नयणिदियस्स तम्हा विसयपमाणं जहा सुए भिहियं । आ उस्सेहपमाणंगुलाण एकेण वि ण जुत्तं ॥३४६॥ .. ननु पुष्करवरद्वीपस्य मानुषोत्तरपर्वतद्विधाकृतस्याग्भिागवर्तिन्यधैं मानुषोत्तरसंनिधावुत्कृष्टे दिवसे कर्कटकसंक्रान्त्यामुदये, उपलक्षणत्वादस्तमयसमये च नरा मनुष्याः सूरमादित्यं पश्यन्ति- अवलोकयन्ति । कियदूरं व्यवस्थितम् १, इत्याह- सातिरेकैरेकविंशतिलौर्योजनानाम् । एतदुक्तं भवति-...
"सीयालीससहस्सा दो य सया जोयणाण ते बैद्धा । एगवीससहिभागा कक्कडमाइम्मि पेच्छ नरा" ॥१॥
इतिवचनाद यथाऽत्र कर्कसंक्रान्तावत्कृष्ट दिवसे एतावति दरे व्यवस्थितं सूर्य मनुष्याः पश्यन्ति, तथा पुष्करापेऽपि मानुषो त्तरसमीपे प्रमाणाङ्गलनिष्पन्नः सातिरेकैरेकविंशतियोजनलक्षैर्व्यवस्थितमादित्यं तत्र दिने तन्निवासिनो लोकाः समवलोकयन्ति तत्र भ्रमितिबाहुल्यात् , सूर्याणां च शीघ्रतरगतित्वातः उक्तं च
"एंगवीसं खलु लक्खा चईतीसं चेव तह सहस्साई । तह पंच सया भणिया सत्तत्तीसाए अइरित्ता ॥१॥
इति नयणविसयमाणं पुक्खरदीवद्धवासिमणुआणं । पुव्वेण य अवरेण य पिहं पिहं होइ नायव्वं" ॥२॥ इत्यादि । तस्माद नयनेन्द्रियस्य सातिरेकयोजनलक्षस्वरूपं विषयपरिमाणं यथा श्रुते प्रज्ञापनादिकेऽभिहितम् , तथा तेन प्रका रेणाऽऽत्माङ्गुलो-त्सेधाङ्गुल-प्रमाणाङ्गुलानामेकेनापि गृह्यमाणं न युक्तं, प्रमाणागुलनिष्पन्नस्यापि योजनलक्षस्य तनिष्पन्नसातिरेकैक विंशतियोजनलक्षेभ्य एकविंशतितमभागवर्तित्वेन बृहदन्तरत्वात् । तस्मादेकत्र सातिरेकं लक्षम्, अन्यत्र तु सातिरेकैकविंशतिलक्षा णि योजनानां नयनस्य विषयप्रमाणं युवतः श्रुतस्य पूर्वापरविरोधः । इति परस्याऽऽकूतम् ।। इति गाथाद्वयार्थः॥ ३४५॥३४६।
लक्षरेकविंशस्या सातिरेकैः पुष्कराधैं । उदये पश्यन्ति नराः सूरमुस्कृष्टे दिवसे ॥ ३५॥ मयनेन्द्रियस्य तस्मात् विषयप्रमाणं यथा श्रुतेऽभिहितम् । आ उत्सेधप्रमाणाकुलानामेकेनापि म युक्तम् ॥ ३४॥ . . २ षट्चत्वारिंशत्सहस्त्राणि द्वे च शते योजनानां तान् बद्धाम् । एकविंशतिषष्टिभागान् कर्कटादौ पश्यन्ति मराः॥१॥ ३ घ.छ. 'वा' । ४ क.ग. 'भ्रमति' । ५ एकविंशतिः खलु लक्षाणि चतुर्विंशरच तथा सहस्राणि । तथा पञ्च शतानि भणितानि सप्तत्रिंशताऽतिरिक्तानि ॥१॥
इति नयनविषयमानं पुष्करद्वीपार्धवासिमनुजानाम् । पूर्वेण चाऽपरेण च पृथक् पृथग् भवति ज्ञातव्यम् ॥२॥६ घ, 'उवासं' । ७ प.छ.'यप्रमा'।..
For Private and Personal Use Only