________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
101
विशेषा०
द्वितीय तु
"'जेणं जया मणूसा तेर्सि जै होइ माणरूवं तु । त भणियमिहायंगुलमणिययमार्ण पुण इमं तु" ६॥
"परमाणू तसरेणू रहरेणू अग्गय च बालस्स । लिक्खा जूया ये जवो अद्वगुणविवड्डिया कमसो" ॥१॥ इत्यादिग्रन्थोक्तम् । तृतीयं तु
"स्सेहेगुलमेगं हवइ, पमाणगुलं सहस्सगुणं । तं चेव दुगुणियं खल वीरस्सार्यगुलं भणिय ॥१॥
- आयंगुलेण वत्थु, उस्सेहपमाणओ मिणसु देह । नग-पुढवि-विमाणाई मिणसु पमाणंगुलेणं ति" ॥३॥ एवं स्थिते आत्माओलेनेदं चक्षुषो विषयपरिमाणं, न शेषाङ्गुलाभ्याम् ॥ इति गाथार्थः ॥ ३४०॥ अत्र प्रेरका माह
नेणु भणियमुस्सयंगुलपमाणओ जीवदेहमाणाइ । देहपमाणं चिय तं न उ इंदिय-विसयपरिमाणं ॥३४॥
ननु "उस्सेहपमाणओ मिणे देह" इतिवचनाद् अन्यत्र भणितमुक्तम् । किं तत् , इत्याह- "नारकादिजीवदेहमानादि केन ?" इत्याह-"उच्छ्याङ्गुलप्रमाणत:" देहग्रहणस्योपलक्षणार्थत्वादिन्द्रियं, इन्द्रियविषयपरिमाणं च तत्र गृह्यते, इति मन्यमानेन परेणाऽऽदिशब्दः कृतः, इन्द्रियं हि देहस्थत्वात् देहग्रहेणैव गृह्यते, तद्विषयपरिमाणमप्यासनत्वात् तद्ग्रहणेन पृखत इति भावः । ततश्च देहस्य, इन्द्रियाणां तद्विषयपरिमाणस्य चोच्छ्याङ्गुलमेयत्वात् किमितीह चक्षुषो विषयपरिमाणमात्माङ्गुलेनोच्यते इति ॥
अत्रोत्तरमाह-'देहेत्यादि' यदुच्छ्याङ्गुलमेयत्वेनाऽन्यत्रोक्तम्, तदेहप्रमाणमात्रमेव बोद्धव्यं, न विन्द्रिय-विषयपरिमाणमपि, तस्यात्माङ्गुलमेयत्वात् ॥ इति गाथार्थः ॥३४१॥ . कथं पुनरेतद् विज्ञायते ', इत्याह- ,
येन यदा मनुष्यास्तेषां यद् भवति मानरूपं तु । तत् भणितमिहाऽऽस्माऽगुलमनियतमान नरिदं तु॥ २ परमाणुनसरेणू रथरेणुरप्रकं च वालस्य । लिक्षा यूका च यवोऽष्टगुणविवर्धिताः क्रमशः॥1॥
सेधाकुलमेकं भवति, प्रमाणाजुलं सहस्रगुणम् । तदेव द्विगुणितं खलु वीरस्याऽऽस्माऽमुलं भणिसम्1॥ आत्मागुलेन वस्तु, उत्सेधप्रमाणतो मिनुथा देहम् । नग-पृथिवी-विमानामि मिनुयात प्रमाणाङ्गुलेनेति ॥२॥४क.ग. ५ ननु भणितमुच्छ्याङ्गुलप्रमाणतो जीवदेहमानादि । देहप्रमाणमेव तद्न विन्द्रिय-विषयपरिमाणम् ॥३४॥
जं तेण पंचधणुसयनराइविसयववहारवोच्छेओ । पावइ, सहस्सगुणियं जेण पमाणंगुलं तत्तो ॥३४२।। ... यद् यस्मात् तेनोच्छ्याङ्गुलेनेन्द्रियविषयपरिमाणेऽभ्युपगम्यमाने, आदिशब्दस्य व्यवहितसंबन्धात् पञ्चा-ऽर्धपञ्चमधनुशतादिप्रमाणानां भरत-सगरादिनराणां योऽसौ श्रोत्रादिभिः शब्दादिविषयग्रहणव्यवहारः प्रसिद्धस्तस्य व्यवच्छेदः प्राप्नोति । कुतः १, इत्याह- येन भरतचक्रवर्त्यङ्गुलरूपं यत् प्रमाणाङ्गुलं तदेतत् ततस्तस्मादुच्छ्याङ्गुलात् सहस्रगुणमुक्तं "उस्सेहंगुलमेगं हवइ, पमाणंगुलं सहस्सगुणं" इतिवचनात् । भरतादीनां चाऽवध्यार्दिनगर्यः, स्कन्धावारश्वात्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते निर्णीतः । उत्सेधाङ्गुलेन पुनरनेकानि योजनसहस्राणिं भवन्ति । अतस्तत्राऽऽयुधशालादिषु ताडितभेर्यादिशब्दश्रवणं सर्वेषां त्वदभिप्रायेण न प्राप्नोति, श्रोत्रं हि वारसहिं जोअणेहिं सोयं अभिगिण्हए सई" इत्यादिवचनाद् द्वादशभ्य एव योजनेभ्यः समागतं शब्दं शृणोति, न परतः । एतानि च द्वादश योजनानि त्वदभिप्रायेण किलोच्छ्याङ्गुलेन मीयन्ते, अत उच्छ्याङ्गुलनिष्पन्नेभ्योऽनेकयोजनसहस्रेभ्यः समागतं भेर्यादिशब्दं कथं श्रोत्रं गृह्णीयात् ? । इष्यते च भरतादिनगरी-स्कन्धावारेषु तच्छ्रवणम् । अत आत्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं, नोत्सेधाङ्गुलेन ॥ इति गाथार्थः ॥ ३४२ ॥
अपि च, यानि देहस्याऽत्मभूतान्येवेन्द्रियाणि, तान्यपि तावत् सर्वाण्युच्छ्याङ्गुलेन न मीयन्ते, किं पुनरिन्द्रियविषयपरिमाणम् ?, इति दर्शयति
"इंदियमाणे वि तयं भयाणिजं जं ति गाउआईणं । जिभिदियाइमाणं संववहारे विरुज्झेज्जा ॥ ३४३ ॥.
इन्द्रियाणि श्रोत्रादीनि, तानि चेह "कोयंवपुप्फ-गोलय-मसूर-अइमुत्तयकुसुमं " इत्यादिना प्रोक्तानि द्रव्येन्द्रियाणि गृह्यन्ते । तेषां मानं प्रमाणमङ्गुलाऽसंख्येयभागादिकं, तत्रापि कर्तव्ये ग्रहीतव्ये बोद्धव्ये वा तदुच्छ्याङ्गुलं भजनीयं-कापि व्यापार्यते, कापि नेत्यर्थः, स्पर्शनेन्द्रियमेकं तेन मीयते, शेषाणि स्वात्माङ्गुलेनैवेति भावः। कुतः?, इत्याह-'जमित्यादि' यद् यस्मात् त्रिगव्यूतादि
१ यत्तेन पञ्जधनुःशतनरादिविषयव्यवहारव्यवच्छेदः । प्राप्नोति, सहस्राणितं येन प्रमाणाालं ततः ॥ ३४३. ॥ अयोध्या२ घ. छ. 'अंन्द्रियादि'। ३ द्वादशभिर्योजनैः श्रोत्रमभिगृह्णाति शब्दम् । ४ इन्द्रियमानेऽपि नन् भजनीयं यदिति क्रोशादीनाम् । जिहेन्द्रियादिमानं संव्यवहारे विरुध्यत ॥ ३३॥ ५ कादम्बपुष्प गोलका-ऽतिमुक्तककुसुममिव ।
For Private and Personal Use Only