________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
103
तदेतत् परिहरति
सुत्ताभिप्पाओऽयं पयासणिज्जे तयं न उ पयासे । वक्खाणओ विसेसो न हि संदेहादलक्खणया ॥३४७॥
सातिरेकयोजनलक्षं नयनविषयप्रमाणं ब्रुवतः सूत्रस्याऽयमभिमाय इयं विवक्षा यदुत- स्वयं तेजोरूपप्रकाशरहितत्वात् परमकाशनीयं यद् वस्तु पर्वत-गादिकं तत्रैव तत् सातिरेकयोजनलक्ष नयनविषयप्रमाणतया द्रष्टव्यम्, न तु स्वयमेव तेजोयुक्तत्वेन प्रकाशे चन्द्रा-ऽर्कादिके प्रकाशके वस्तुनि । एतदुक्तं भवति-कश्चिद् निर्मलचक्षुर्जीवः सातिरेकयोजनलले स्थितं पर्वतादिकं वीक्षते, इति प्रकाशनीये पर्वत-गादिके वस्तुनि नयनस्य तद्विषयप्रमाणमुक्तम्, प्रकाशके त्वादित्यादिकेनियमः । कुतः पुनरयं मूत्राभिमायो गम्यते १, इत्याह-व्याख्यानतो विशेषप्रतिपत्तिः कर्तव्या, न तु संदेहादुभयपक्षोक्तिलक्षणात् सूत्रस्य सर्वज्ञपणीतस्याऽलक्षणता- असमअसाभिधायिता व्यवस्थापनीया- व्याख्यानात मूत्र विषयविभागेन धरणीयं, न तूभयपक्षोक्तिमात्रभ्रमितैस्तद्विरोध उद्भावनीय इत्यर्थः। उक्तं च
जह सुत्ते भणियं तहेव जइ तं, वियालणा नत्थि । किं कालियाणुओगो दि@ो दिद्विप्पहाणेहिं !" ॥१॥ इति गाथार्थः ॥ ३४७॥ तदेवममाप्तकारिताविचारमक्रमेण नयनस्य विषयप्रमाणमुक्तम् । अथ प्रसङ्गतः शेषेन्द्रियाणामपि तदाह
बारसहिंतो सोत्तं सेसाई नवहिं जोयणेहितो। गिण्हंति पत्तमत्थं एत्तो परओ न गिण्हंति ॥ ३४८ ॥ मेघगर्जितादिशब्दसत्कृष्टतो द्वादशयोजनेभ्यः समायात गृह्णाति श्रोत्रम् । उक्तशेषाणि विन्द्रियाणि घ्राण-रसन-स्पर्शनलक्षणानि गन्ध-रस-स्पर्शलक्षणमर्थमुत्कर्षतो नवयोजनेभ्यः प्राप्त गृहन्ति, अतः परतोऽप्यायात शब्दादिकमेतानि न गृहन्ति । ननु मेघगर्जितादि. विषयः शब्दः प्रथमपावृषि, प्रथममेघकृष्टौ सत्यां मृत्तिकादिगन्धश्च दूरादप्यायातो गृह्यमाणः समनुभूयते रस-स्पर्शी तु कथम् , इति चेत् । उच्यते-दूरादागतानां गन्धद्रव्याणां रसोऽपि तावत् कश्चिद् भवत्येव । स च तेषां जिहासंबन्धे सति यथासंभव कदाचित
. सूत्राभिप्रायोऽयं प्रकाशनीये ते न तु प्रकाशे । व्याख्यानतो विशेषो नहि संदेहादलक्षणता ॥ ३७॥ २वद् यथा सूत्रे भणितं तथैव यदि तत्, विचारणा मास्ति । किं कालिका(सिदान्ता)ऽनुयोग भादिष्टो रहिमधानः ।
३ द्वादशभ्यः श्रोनं शेषाणि नवभ्यो योजनेभ्यः । गृहन्ति माप्तमर्थमेतस्मात् परती न गृहन्ति ॥ ३४८॥ केनचिद् गृह्यत एव । तथाच वक्तारो भवन्ति- 'कटुकस्य, तीक्ष्णादेर्वा वस्तुनः संबन्धी अयं गन्धः' इति । यच्चेह कटुकत्वं, तीक्ष्णा दित्वं चोच्यते, तद् रसस्यैव धर्मः । ततश्च ज्ञायते- जिह्वासंबन्धे तेषां कटुकादिको रसोऽपि गृहीत इति । स्पर्शोऽपि शीतादिरादर शिशिरपझसर-सरित-समुद्रादेमध्येनाऽऽयातस्य वातादेरनुभूयत एवेति ॥ ३४८॥
यद्येवम् , द्वादश-नवयोजनेभ्यः परतोऽप्यायाताः शब्द-गन्धादयः किमिति न गृह्यन्ते ?, इत्याह
देव्वाण मंदपरिणामयाए परओ न इंदियबलं पि । अवरमसंखेजंगुलभागाओ नयणवजाण ॥ ३४९ ॥
द्वादश-नवयोजनेभ्यः परतः समायातानां शब्द-गन्धादिद्रव्याणां मन्दपरिणामत्वात् । न खलु परतः समायातानां तेषां तथा विधः परिणामो भवति, येन श्रोत्र-प्राणादिविज्ञानं जनयेयुः, श्रोत्रादीन्द्रियाणामपि च तथाविधं बलं न भवति, येन परतः समायाता शब्दादिद्रव्याणि गृहीत्वा स्वविज्ञानं जनयन्ति । तदेवमुक्तमिन्द्रियाणामुत्कृष्ट विषयपरिमाणम् । अथ जघन्यं तद् विभणिषुराह- 3 वरमित्यादि' अपरं जघन्यं विषयप्रमाणमुच्यते । किम् ?, इत्याह- असंख्याततमादङ्गुलासंख्येयभागादागतं-गन्धादिकं घ्राणादी गृह्णन्तीति । किमेतत् सर्वेषामपीन्द्रियाणां जघन्यं विषयममाणम् , न, इत्याह- नयनवर्जानाम् ॥ ३४९ ॥
नयनस्य तर्हि का वार्ता ?, इत्याह
सेंखेज्जइभागाओ नयणस्स, मणस्स न विसयमाणं । पोग्गलमित्तनिबंधाभावाओ केवलस्सेव ॥३५०॥
अङ्गुलसंख्येयभागात्- अङ्गुलसंख्येयभागमवधौ कृत्वा नयनस्य जघन्यं विषयपरिमाणम् , अतिसंनिकृष्टस्याऽजनशर का-रजो-मलादेस्तेनाऽनुपलम्भादिति भावः । मनसस्तु क्षेत्रतो नास्त्येव विषयप्रमाणं, अनियमेन दूरे, आसन्ने च तत् प्रवर इत्यर्थः । कुतः १, इत्याह- पुद्गलमात्रस्य निबन्धो नियमस्तस्याऽभावात् , मूर्ता-ऽमूर्तसमस्तवस्तुविषयत्वेन 'पुद्गलेष्वेवेदं प्रवर्त इत्येवंभूतस्य नियमस्याऽभावात् , केवलस्येवेत्यर्थः । इह यत् पुद्गलमात्रनिबन्धनियतं न भवति, न तर केवलस्य, पुद्गलमात्रनिबन्धनियतं च मनः, ततो नाऽस्य विषयपरिमाणम् । यस्य तु विषयपरिमाणं तत्पुद्गलमात्रनिवन्धरहितमपि भवति, यथाऽवधि-मनःपर्यायज्ञाने इति ।। अत्राह- नन्वनैकान्तिकोऽयं हेतुः, मति-श्रुतज्ञानाभ्यां व्यभिचारात । तथाहि- मूर्ता
१ दृष्याणां मन्दपरिणामतया परतो नेन्द्रियबलमपि । अपरमसंख्येयाकुलभागात् नयनवर्जानाम् ॥३४९॥ १ संख्ययभागावू नयनस्य, मनसो न विषयप्रमाणम् । पुनलमात्रनिबन्धाभावात् केवलखेव ॥ ३५० ॥ ३ घ. छ. 'परिमा'।
For Private and Personal Use Only