________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
96
विशेषा०
प्राप्यते, स्थाणुत्वस्याऽनुगतत्वेन सभ्वात्, पुरुषत्वस्य त्वभावरूपतया सद्भावात् । अथवा, स्थाणुत्वं स्थाणोः पर्यायः, पुरुषत्वं तु पुरुषस्येति । यश्च स्थाणी 'पुरुष एवाऽयम्' इति विपर्यासः प्रादुरस्ति, तत्रापि पुरुषत्वं व्यावृत्तिरूपतया स्थाणोरपि पर्यायः, अनुगतत्वेन तुपुरुषस्येति अनध्यवसायप्रतिभासि तु सामान्यमविवादेन स्थाण्वादिवस्तुपर्याय एव । तदेवं संशयादिभिर्वस्तुपर्यायाणां ज्ञायमानत्वात्, सम्यग्दृष्टिसंबन्धिनां च तेषामिहाऽधिकृतत्वेन मिध्यादृष्टिसंबन्धित्वस्याभावात्, लोकरूढस्य च संशयादित्वस्याज्ञाननिबन्धनरथेनेहाsarve ज्ञानमेव ते सम्यग्दृष्टिसंबन्धिनः संशयादयः ॥ इति गाथार्थः ॥ ३२१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पर्यायं सर्वमपि वस्तु, इति भवद्भिरुक्तम् । तस्य च घटादिवस्तुन एकस्मिन् काल एकमेव कश्चिद् घटत्वादि पर्याय सम्यग्दृष्टिरपि गृह्णाति । अतोऽनन्तपर्यायमपि वस्त्वेकपर्यायतया गृहतस्तस्याऽपि कथं ज्ञानं स्यात्, अन्यथास्थितस्याऽन्यथा ग्रहणात् ,
इत्याशङ्कयाह
पंज्जायमासयंतो एक्कं पि तओ पओयणवसाओ । तत्तियपज्जायं चिय तं गिण्हइ भावओ वत्युं ॥ ३२२ ॥
'तउत्ति' तकोऽसौ सम्यग्रहष्टिरेकमपि घटादिवस्तुनो घटत्वादिपर्यायं प्रयोजनवशादाश्रयन् गृह्णस्तावन्तः प्रागुक्तप्रकारेणाऽनन्ताः पर्याया यस्य तत् तावत्पर्यायमेव भावतः परमार्थतो वस्तु घटादिकं गृह्णाति । एतदुक्तं भवति - भावत आगमप्रामाण्याभ्युपगमाभिsteaः सम्यग्ष्टिना यथाऽवस्थितमनन्तपर्यायं वस्तु सदैव गृहीतमेवाऽऽस्ते, केवलं प्रयोजनवशादेकं पर्यायमाश्रयति, तथाहि - सौवर्णे घटे दृष्टे यस्य घटमात्रेण प्रयोजनं भवति स 'घटोऽयम्' इति घटत्वमध्यवस्यति । यस्य तु सुवर्णेन, स 'सुवर्णमिदम्' इति सुवर्णत्वं व्यवस्यति । यस्य तु जलक्षेपादिना स 'जलादिभाजनमिदम्' इति जलादिभाजनत्वमध्यवस्यति । उपलक्षणं च प्रयोजनम्, अन्येऽप्यभ्यासपाटन - प्रत्यासत्यादयो गृह्यन्ते; तथाहि - ब्राह्मणे द्वारि दृष्टे कोऽप्यभ्यासवशाद् 'भिक्षुकोऽयम्' इत्याचष्टे, अन्यस्तु पाटववशाद् 'ब्राह्मणोऽयम्' इति, अपरस्तु यस्तत्समीपेऽधीते स प्रत्यासत्तिवशाद् 'मदीयोपाध्यायोऽसौ' इत्यायनया दिशा भावनीयम् । ततश्च प्रयोजनादिवशादेकपर्यायतया वस्तु गृह्णानोऽप्यसौ भावतः परिपूर्णाऽनन्तपर्यायमेव गृह्णाति । अतः सर्वदैव भावतः प्रतिपन्नयथावस्थितव स्तुस्वरूपस्य संशयादिकालेऽपि सम्यग्दृष्टेर्ज्ञानमेव ।। इति गाथार्थः ॥ ३२२ ॥
१ क ग 'घटादित्यप' । २ पर्यायमाश्रयकमपि सकः प्रयोजनवशात् । तावत्पर्यायमेव तद् गृह्णाति भावतो वस्तु ॥ १२२ ॥ + रुदया-1 मिथ्यादृष्टेरप्येवं भविष्यति, इति चेत् । न, इत्याह
'निण्णयकाले विजओ न तहारूवं विदंति ते वत्युं । मिच्छद्दिट्ठी, तम्हा सव्वं चिय तेसिमण्णाणं ॥ ३२३ ॥
आतां संशयादिकाले निर्णयो निश्चयस्तत्कालेऽपि यतस्ते मिथ्यादृष्टयो न यथा परमगुरुभिर्दृष्टं तथारूपमनन्तपर्यायं वस्तु विदन्ति, केवलिष्टयथावस्थितवस्त्वभ्युपगमस्य तेषां कदाचिदप्यभावात्; अन्यथा मिध्यादृष्टित्वायोगात् । अतस्तेषां निश्चयरूपं, संश यादिरूपं च सर्वमज्ञानमेव, ज्ञाननिबन्धनस्य भुवनगुरुनिर्णीतयथावस्थितवस्त्वभ्युपगमस्य कदाचिदप्यसत्त्वात् ॥ इति गाथार्थः ॥ ३२३॥
अथवा नाज्ञानमात्रमेव तेषाम्, किन्त्वद्याप्याधिक्यं किञ्चित् इति दर्शयन्नाह
hari वन्नाणं विवज्जओ चैव मिच्छदिट्ठीणं । मिच्छाभिणिवेसाओ सव्वत्थ घडे व्व पडबुद्धी ॥ ३२४ ॥
संशया-ऽनध्यवसाय-विपर्ययान् किलाऽज्ञानत्वेन सामान्यतो वदति भवान् मिथ्यादृष्टेस्त्वतिदुःसहमहादुःखहेतुत्वात् कष्टतरं विशेषिततरमज्ञानम् । कुतः १, इत्याह- यस्माद् विपर्ययो विपर्यास एव तस्य सर्वज्ञोक्ते यथावस्थिते वस्तुनि, न तु संशया - ऽनध्यव सायाविति भावः । अतः संशया ऽनध्यवसायवद्भयो विशेषिततरमस्याऽज्ञानम् । कुतः पुनरस्य विपर्यय एव १, इत्याह- मिध्याभिनि वेशाद, सर्वत्रेति - सर्वत्र मोक्षे, तत्साधने संसारे, तत्साधने च नारकादिवस्तुनि वा, तस्य मिथ्याभिनिवेशात् सर्वज्ञोक्तविपरीताध्य वसायात् घटे पटबुद्धिवत् । इति गाथार्थः ॥ ३२४ ॥
तदेवं सर्वज्ञोक्तयथावस्थितानन्तपर्यायवस्त्वभ्युपगमस्य सर्वदैव भावात् सम्यग्दृष्टेर्ज्ञानं समर्थितम् । अथ प्रकारान्तरेणाऽपि त तस्य समर्थयन्नाह -
हवा जहिंदनाणोवओगओ तम्मयत्तणं होइ । तह संसयाइभावे नाणं नाणोवओगाओ || ३२५ ॥
अथवा यथेन्द्रज्ञानोपयोगात् तदुपयोगवतो ज्ञातुर्देवदत्तादेः परमैश्वर्याद्यभावेऽपि तन्मयत्वमिन्द्रमयत्वं भवति, भावेन्द्र एवायं व्यपदिश्यत इत्यर्थः तथा सम्यग्दृष्टेरपि सम्यग्दर्शनलाभकाल एव मत्यादिज्ञानलाभाज्ज्ञान परिणामरूपस्य ज्ञानोपयोगमात्रस्य सर्वदेव भावात्, अन्यथा मिथ्यादृष्टित्वप्रसङ्गात् सदैव ज्ञानमभ्युगन्तव्यम्, तदुपयुक्तस्य तन्मयत्वात् इन्द्रोपयुक्तदेवदत्तेन्द्रवदिति । इदमुत
१ निर्णयकालेऽपि यतो न तथारूपं विदन्ति ते वस्तु । मिथ्यादृष्टयः, तस्मात् सर्वमेव तेषामज्ञानम् ॥ ३२३ ॥ २ कष्टतरं वाऽज्ञानं विपर्यय एवं मिथ्यादृष्टीनाम् । मिथ्याभिनिवेशात् सर्वत्र घट इव पटबुद्धिः ॥ ३२४ ॥ ३ अथवा यथेन्द्रज्ञानोपयोयतस्तन्मयत्वं भवति । तथा संशयादिभावे ज्ञानं ज्ञानोपयोगात ॥ ३२५ ॥
For Private and Personal Use Only
४ ज 'सर्वदे' ।