________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
95
विशेषा०
नैश्चयिकः । आगमे च संशयादिरूप, निश्चयरूपं वा मिथ्यादृष्टेः सर्वमप्यज्ञानम्। सम्यग्दृष्टेस्तु तदेव सर्व ज्ञानम् । इत्येवं ज्ञाना-ज्ञानव्यवहारो रूढः । ततश्च यदादौ संशयादित्वेनाऽवग्रहादीनामज्ञानत्वं प्रेरितम् , तदयुक्तम् । न हि संशयादित्वमज्ञानभावस्य निमित्तमागमविचारे, किन्तु मिथ्यादृष्टिसंबन्धित्वम् , तच्चेह नास्ति, सम्यग्दृष्टिसंबन्धिनामेवाऽवग्रहादीनामिह विचारयितुमुपक्रान्तत्वात् , इति भावः ।। इति गाथार्थः॥३१८॥ का पुनर्मिथ्यादृष्टिनाऽपराधः कृतः, येन तत्संबन्धि सर्वमप्यज्ञानम् ?, इत्याह
सदसदविसेसणाओ भवहेउजहिच्छिओवलम्भाओ । नाणफलाभावाओ मिच्छद्दिहिस्स अण्णाणं ॥ ३१९ ॥ एषा पूर्वमिहाऽपि व्याख्यातैवेति ॥ ३१९ ॥ सम्यग्दृष्टस्तर्हि को विशेषः, येन तस्य सर्वमपि ज्ञानम् , इत्याह
ऐगं जाणं सव्वं जाणइ सव्वं च जाणमेगं ति । इय सव्वमयं सव्वं सम्मदिहिस्स जं वत्थु ॥ ३२० ॥ . इह परमाण्वादिकमेकैक वस्तु स्व-परपर्यायैः समस्तत्रिभुवनगतवस्तुमयम् , तथाहि- परमाणौ तावदेकगुणकालैत्वादयोऽनन्ता वर्ण-गन्ध-रसादिकाः स्वपर्याया भवन्ति । अपरं च, असौ विवक्षितः परमाणुरन्येभ्यः परमाणु-द्यणुक-व्यणुकादिसमस्तवस्तुभ्यः क्षेत्रकालादिभियावृत्तः, इत्यतस्तद्वयावृत्तिलक्षणा अनन्ताः परपर्याया भवन्ति । एवं च सति येभ्योऽयवस्तुभ्योऽसौ परमाणुावृत्तः, तेषां सर्वेषामपि तत्र परमाणौ प्रत्येकमभावो वर्तते, इति सामर्थ्यात् सिद्धम् । अन्यथा तस्य तेभ्यो व्यावत्यसिद्धेः अभावश्चाऽभावजतो धर्मः, यत्र धर्मः, तत्र धर्मिणा कथञ्चिद् भवितव्यमेव, अन्यथा तस्य तद्धर्मत्वायोगात्। ततश्च सर्वाण्यप्यन्यवस्तूनि तत्र परमाणौ स्वाभाववृत्तिद्वारेण वर्तन्त इति पर्यवसितम्। ततश्च परमाणुः सर्ववस्तुमयः सिद्धः । एवं व्यणुकादिष्वपि भावनीयम्, तेषामपि प्रत्येक परेभ्यो व्यावृत्तत्वात् । ततश्च सर्वमपि वस्तु सर्वमयमिति स्थितम् । इह च य एकं विवक्षितं वस्तु जानाति, स शेषाण्यपि सर्ववस्तूनि जानाति, समस्तवस्तुपरिज्ञाननान्तरीयकत्वादेकवस्तुपरिज्ञानस्य । येभ्योऽपि हि शेषवस्तुभ्यो व्यावृत्तं तद् विवक्षित वस्तु, तानि सर्वाण्यपि ज्ञातव्यानि, तत्परिज्ञानाभावे तेभ्यो व्यावृत्तत्वस्याऽवगन्तुमशक्यत्वादिति । यश्च सर्ववस्तूनि जानाति स विवक्षितमप्येकं किमपि वस्तु जानाति, तत्परिज्ञानाविनाभावात समस्तवस्तुज्ञानस्य । तानि हि सर्ववस्तूनि विवक्षितैकवस्तुनो व्यावृत्तान्यवबोद्धव्यानि । न च
१ गाथा ११५ । २ एक जानन् सर्वं जानाति सर्व च जानक्षेकमिति । इति सर्वमयं सर्व सम्यग्दष्टेयंदू धस्तु ॥ ३२० ॥ ३ क.व.ग. 'सकत्वा' । तदपरिझाने तव्यावृत्तत्वमेव बोढुं शक्यत इति । नन्वेवंविधपरिज्ञानं तर्हि केवलिन एव भवति, नाऽन्यस्थ, तस्य सूक्ष्माऽतीत-व्यवहिता-ऽमूर्तादिसमस्तवस्तुग्रहणासमर्थत्वात् । सत्यम् , साक्षादित्यं केवल्येव जानाति, तद्वचनश्रद्धानद्वारेण पुनर्भावतोऽन्योऽपि सम्यग्दृष्टिः सर्व एकैकं वस्तु सर्वमयं जानाति । आगमे हि केवलिनैतत् प्रणीतम् , तद्यथा- “जै एग जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ ति"। सम्यग्दृष्टेश्च सर्वस्याऽप्ययमागमः प्रमाणमेव, अन्यथा सम्यग्दृष्टित्वायोगात् । ततश्च यद्यपि सर्वः सम्यग्दृष्टिरित्थं सर्व सर्वमयं वस्तु न जानाति, तथापि यथोक्तागमश्रद्धानद्वारेण भावतो जानात्येवेति । अतः सर्वदैवाऽयं ज्ञानी भण्यते, केवलिदृष्टयथावस्थितवस्तुस्त्ररूपस्य प्रमाणताभ्युपगमद्वारेण सर्वदैव तेन ज्ञायमानत्वात् ॥ इति गाथाभावार्थः॥ ___ अक्षरार्थस्तूच्यते- एकं वस्तु जानन् सर्व वस्तु जानाति, सर्वच वस्तु जानने जानातीति एवंभूतमागर्म सम्यग्दृष्टिस्तावत् सर्वदैव प्रमाणतयाऽभ्युपगच्छति' इति शेषः । इत्यतः परमावादिकं यत् किमपि वस्त्वस्ति, तत्सर्वमप्युक्तन्यायेन स्व-परपर्यायैः सर्वमयं सम्यग्दृष्टिज्ञानगोचरः । अतः सर्वदैवाऽयं ज्ञानी भण्यते, जाग्रतः, स्वपतः, तिष्ठतः, चलतश्चाऽस्य परमगुरुप्रणीतयथोक्तवस्तुखरूपाभ्युपगमस्य चेतसि सर्वेदैवाऽविचलनात ॥ इति गाथार्थः॥ ३२०॥
_ ननु यद्येवं, तईि निश्चयरूपं सभ्यग्दृष्टानमस्तु, संशयादयस्तु बालानामप्यज्ञानत्वेन लोके रूढाः, तस्याऽपि कथमिव ज्ञानं स्युः १, इत्याह
जे संसयादिगम्मा धम्मा वत्थुस्स ते वि पज्जाया । तदहिगमत्तणओ ते नाणं चिय संसयाईया ॥ ३२१ ॥
इह ये संशयादिगम्या धर्मास्तेऽपि वस्तुनस्तावत् पर्याया एव । ततस्तदधिगमहेतुत्वात् ते सम्यग्दृष्टिसंबन्धिनः संशयादयो शानमेव । एतदुक्तं भवति- इह लोकव्यवहाररूढं संशयादित्वमज्ञानभावस्य निबन्धनत्वेन तावन्नाधिकृतमेव, किन्तु मिथ्यादृष्टिसंबन्धि
त्वमित्युक्तमेव, तच्च सम्यग्दृष्टिसंबन्धिनां संशयादीनां नास्ति, तत्कथं न ते ज्ञानं भवेयुः १ । ज्ञायते येन किश्चित् तज्ज्ञानं भवति, : : च संशयादिभिः किमपि ज्ञायते, इति. चेत् । नैवम्, तेषामपि वस्तुपर्यायगमकत्वात् , तथाहि- पुरतः स्थाणी व्यवस्थिते योऽस 'किमयं स्थाणुः, पुरुषो वा ?' इति संशय उदेति, तत्र यत् स्थाणुत्वं, पुरुषत्वं च प्रतिभाति, तदुभयमपि स्थाणौ पर्यायरूपतय
य एक जानाति स सर्व जानाति, यः सर्व जानाति स एकं जानातीति । अष्टे२ ये संशयादिगम्या धर्मा वस्तुनस्तेऽपि एर्यायाः । तदधिगमत्वतस्ते ज्ञानमेव संशयादयः ॥ ३२॥
For Private and Personal Use Only