________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
94
विशेषा०
इह वस्तुनो घटादेर्मुन्मयत्व-पृथुषुनत्व-वृत्तत्व-कुण्डलायतग्रीवायुक्तत्वादयोऽर्थरूपाः पर्याया अर्थपर्याया अनन्ता भवन्ति । घर कुट-कुम्भ-कलशादयस्तु वचनरूपाः पर्याया वचनपर्यायास्तेऽप्यनन्ता भवन्ति; आदिशब्दात् परब्यावृत्तिरूपा अप्यनन्ता गृह्यन्ते. ततश्चेत्यं समासः कर्तव्यः- अर्थश्च, वचनानि च, आदिशब्दात् परव्यावृत्तयश्च तद्रूपाः पर्याया अर्थ-वचनादिपर्यायाः, ते च तेऽनन्ता त एव शक्तयः, ताभिः संपन्न युक्तं यतो वस्तु भवति, अतस्तस्यैकदेशविच्छेदकारिणः संशयादयो ज्ञेयाः । इदमुक्तं भवति-नख वयं निरंशवस्तुवादिनः, किन्तु यथोक्तानन्तधर्मलक्षणवस्तुनोऽनन्ता एव देशाः सन्तीति वयं मन्यामहे, तन्मध्याच्चैकैकदेशग्राहिण संशयादयोऽपि भवन्त्येव, इति कथं न ते ज्ञानम् ? । यदि पुनस्ते किमपि न गृह्णीयुः, तदा तेषामनुत्थानमेव स्यात्, सर्वथा निर्विषर ज्ञानस्य प्रसवायोगात् , गगननलिनज्ञानवत् । ततश्च 'ज्ञायतेऽनेनेति ज्ञानम्' इति व्युत्पत्त्यर्थात् संशयादीनामपि ज्ञानता न विरुध्य ॥ इति गाथार्थः॥३१६॥ अथ समस्तवस्तुरूपग्राह्येव ज्ञानं, नैकदेशग्राहकम् , इत्येतदाशक्य निराकुर्वन्नाह- अहवा न सव्वधम्मावभासया तो न नाणमिट्ठ ते । नणु निन्नओ वि तहेसमेत्तगाहि त्ति अन्नाणं ॥३१५
अगाधान्येवं ब्रूयात् परः । किम् ?, इत्याह- न सर्वधर्मावभासका न कात्स्न्येन गवादिवस्तुसमग्रधर्मग्राहिणः, ततो ज्ञानमिष्टं ते संशयादयः, संपूर्णवस्तुस्वरूपग्राहिण एव ज्ञानत्वात् । अत्रोत्तरमाह- ननु भवता ज्ञानत्वेनाऽङ्गीकृतस्तर्हि निर्णयोऽप्यज्ञार मेव प्रामोति । कुतः, इत्याह-तस्य गवादिवस्तुन एकदेशमात्रग्राहीति कृत्वा; तथाहि- 'गौरयं, घटोऽयं, पटोऽयम्' इत्यादि भिनिर्णयैरपि गोत्व-घटत्वादिको वस्त्वेकदेश एव गृह्यते, अतस्तेऽपि कथं ज्ञानरूपता भजेयुः १ । अथ देशस्य देशिनमन्तरेण कद चिदप्यभावात् तद्ग्रहणद्वारेण सर्वमपि वस्तु निर्णयेन गृहीतम् , इत्यतो ज्ञानमेवाऽप्तौ । तदेतत् संशयादिष्वपि समानम् । तथादि 'किमयं स्थाणुः, पुरुषो वा' इत्यादिरूपः संशयोऽपि स्थाणुत्वादिकं वस्त्वेकदेशं जानाति, विपर्यासोऽपि विपर्ययवस्त्वेकदेशमव ध्यते, अनध्यवसायोऽपि सामान्यमात्ररूपं वस्त्वेकदेशमवगृह्णाति । ततश्च संशयादयोऽप्येकदेशपरिज्ञानद्वारेण समग्रमपि वर जानन्त्येव, इति तेषामपि ज्ञानता केन वार्यते । अथ गृह्यते संशयादिभिर्वस्त्वेकदेशः, केवलं संशयेन संदिग्धः, विपर्यासे विपर्यस्तः, अनध्यवसायेन त्वविशिष्ट इति चेत् । ननु प्रतिविहितमप्यदः किं विस्मरासि ?, यतो 'ज्ञायतेऽनेनेति ज्ञानम् , मतिर
। अथवा न सर्वधर्मावभासकास्ततो न शानमिष्टं ते । ननु निर्णयोऽपि तद्देशमात्रमाहीत्यज्ञानम् ॥ ३१७ ॥ ज्ञानं मतिज्ञानम्' इत्येवं सामान्येनैव सम्यग्दृष्टिसंवन्धि मतिज्ञानमिह विचार्यते । तस्य च संशयादिरूपस्य, निर्णयरूपस्य वा सम्यग् ष्टिसंबन्धिनो ज्ञानता न विरुध्यते, 'ज्ञायतेऽनेनेति ज्ञानम्' इत्यस्यार्थस्य सर्वत्रोपपद्यमानत्वादिति । ननु यदि संशयादयो मतिज्ञानम् , तर्हि चतुर्भेदत्वमतिक्रम्य सप्तभेदत्वं तस्य प्रसज्यते, इति चेत् । नैतदेवम् , यतोऽनध्यवसायस्तावत्सामान्यमात्रग्राहित नाऽवग्रहेऽन्तर्भवति, संशयोऽपि पूर्वोक्तस्वरूपेहासकारत्वात् , तत्कारणत्वाच्च तस्यामेवाऽन्तर्विशति, यदपि संशयस्य पूर्वमीहात्वमपाक तदपि व्यवहारिजनानुवृत्त्या, न तु सर्वथेति; विपर्यासस्तु निश्चयरूपत्वात् साक्षादपाय एव, इति कुतश्चतुर्भेदातिक्रमः। इत्थं चैतर जीकर्तव्यम् , अन्यथा सम्यग्दृष्टि संबन्धिनः संशयादयो मतिज्ञानादतिरिच्यमानाः काऽन्तर्भवेयुः ? । अज्ञान इति चेत् । नैवम् "सम्मदिही णं भंते ! किं नाणी अन्नाणी ? गोयमा! नाणी, नो अनाणी" इत्यायोगमवचनात् सम्यग्दृष्टेः सदैव झानित्व दिति । भवत्वेवम् , तथापि सम्यग्दृष्टिसंबन्ध्येव मतिज्ञानमिह विचार्यत इति कुतो लभ्यते ? इति चेत् । उच्यते- ज्ञानपञ्चकमेवेह विच रयितुमुपक्रान्तम, ज्ञानं च सम्यग्दृष्टेरेव भवति, अतस्तत्संबन्ध्येव मतिज्ञानमिह विचार्यते, सम्यग्दृष्टिसंबन्धिनां च संशयादी ज्ञानता साध्यते । इत्यलं विस्तरेण ।। इति गाथार्थः ॥३१७ ॥
अत्रातिप्रसक्तिं मन्यमानः परः प्राह
जइ एवं तेण तुहं अन्नाणी को वि नत्थि संसारी । मिच्छट्ठिीणं ते अन्नाणं नाणमियरेसि ॥ ३१८ ॥
क्येषमुक्तप्रकारेण संशयादयोऽपि ज्ञानम् , तेन तव 'अज्ञानी नास्ति कोऽपि संसारी जीवः' इति प्राप्तम् ; प्रक्षे सर्वस्यापि न परेणाऽभ्युपगम्यत इति संसारिणामेवाऽयमतिप्रसङ्गलक्षणो दोषः, इत्यभिप्रायवता 'संसारी' इति विशेषणमकारि । एतदुक्तं भवति 'संशयादयोऽज्ञानम् , निर्णयस्त्वबाधितो ज्ञानम्' इति तावल्लोकव्यवहारस्थितिः। यदि च भवता संशयादीनामपि ज्ञानरूपता व्यवस्थ प्यते, तर्हि समुच्छिन्नोऽयमज्ञानव्यवहारः, ततः कथं नातिप्रसङ्गः । दृश्यते च लोकेऽज्ञानव्यवहारः स कथं नीयते? इति। अत्रोत्तरमा 'मिच्छविहीणमित्यादि मिथ्यादृष्टीनां संबन्धिनस्ते संशय-विपर्ययाऽनध्यवसायाः, निर्णयश्चाज्ञानम् , इतरेषां तु सम्यग्दृष्टीनां संबन्धिन ज्ञानम् , इति नाज्ञानव्यवहारोच्छेदः। अयमभिप्राया-लोकव्यवहाररूढो ज्ञाना-ज्ञानव्यवहारोऽत्र न विवक्षित, किन्वागमाभिप्रायरू
. सम्यग्रष्टयो भगवन् ! किं ज्ञानिना, अज्ञानाः1, गोयगा ! शामिनः, मो अज्ञानाः । २ 'भगवती' इतिनाम्ना प्रसिद्ध व्याख्याप्रज्ञप्तिसूत्रे ।
ययेवं तेन तदाऽज्ञानः कोऽपि नास्ति संसारी। मिथ्यारष्ट्रीनां तेशानं ज्ञानमितरेषाम् ॥ ३८॥ ४ क.ग.छ.ज. 'री आमि'।
For Private and Personal Use Only