________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
93
विशेषा ०
★ संशयादिरूपत्वाद् नाऽवग्रहादयो ज्ञानमिति । अतो न ते मतिज्ञानभेदाः । तद्भेदत्वे वा मतिज्ञानमपि न किञ्चिद, दोपशतजर्जराधात्मकत्वात् ।। इति गाथार्थः ।। ३१३ ।।
asser: माह
सज्झमोग्गहाईण संसयाइसणं तहवि नाम । अग्भुवगंतुं भण्णइ नाणं चिय संसयाईया ॥ ३१४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इह यदवग्रहादीनां संशयादित्वं त्वयोद्भावितं तदद्यापि साध्यं साधनीयं वर्तते, त्वदुक्तनियुक्तिकवादमात्रेणैव मदुक्तहेतोर सिद्धसंभावादिति मन्तव्यम्, न पुनरेतावतैव जाता त्वत्समीहितसिद्धिः, इति प्रमुदितेन न भाव्यमिति भावः । तथाहि यदुक्तम् 'संदिग्धे संशविपर्ययौ' इति । तदयुक्तम्, अभिप्रायापरिज्ञानाद, न ह्यस्माभिस्तथाविधं वस्त्वमापकं संदिग्धत्वं विवक्षितम्, येन वस्त्वमापणात्, पर्ययमापणाद् वा तत्र संशय-विपर्ययौ स्याताम्, किन्तु कृतेऽपि वस्तुमापकेऽवितथे निश्वये यत्र तथाविधक्षयोपशमवैचित्र्याद् मनसि कश्चिदल्पं शङ्कामात्रं न निवर्तते 'सम्यग् न जाने, तथैव स्यादन्यथा वा' इति, तच्चेड़ संदिग्धत्वं विवक्षितम् । न चैतावन्मात्रेणैवाज्ञानता युक्ता, व्यवहारोच्छेदप्रसङ्गात् । न खलु धूम- बलाकादेः सकाशात् सम्यग् दहन - जलादौ निश्चितेऽपि मुखेन तनिश्चयं
प्रमातृणां चेतसि शङ्कामात्रं विनिवर्तते । न च ते सर्वेऽपि निश्चितं वस्तु न प्राप्नुवन्ति । न च पर्ययत्वेनाऽज्ञाता तेषां दृष्टा । यदप्युच्यते- 'ईहाऽपि संशय एव' । तदप्यसंगतम्, न हि 'किमयं स्थाणुः, पुरुषो वा' इत्यादिरूपः संशय ईहाऽभ्युसाम्यते; किन्तु यदनन्तरमेव निश्चयोऽवश्यं भवति, स एवान्वयधर्मघटन व्यतिरेकधर्मनिराकरणाभ्यां निश्चयाभिमुखो बोध ईहा, इत्यसकृव पूर्वमावेदितम् । न चायं संशयः, निश्चयाभिमुखत्वात् । नापि निश्चयः, तत्प्रत्यासत्तिमात्रप्राप्तत्वात् । न च वक्तव्यम् - निश्चयादन्यसर्वस्य संशयत्वादज्ञानतैवेति; निश्चयोपादानक्षणस्याऽपि सर्वथाऽज्ञानत्वप्रसङ्गात् । तथा च सति निश्चयस्याऽप्यज्ञानताप्राप्तिः । नहाविशिष्टात् कारणाद् विशिष्टकार्योत्पत्तिः" इत्युक्तत्वादिति । यदप्युक्तम्- 'निश्रितं विपर्यासः' इति । तदप्ययुक्तम्, 'लिङ्गाश्रितं नेश्रितम्' इत्यस्मिन् व्याख्यानेऽस्य दोषस्य सर्वथैवाऽसंबध्यमानत्वात्, 'पैरधम्मेहि विमिस्सं निस्सियं' इत्यस्य च व्याख्यानान्तरमात्रवाद । भवतु तदपि व्याख्यानम्, तथापि व्याख्यानात् परधर्मास्तस्मिन्नाशङ्किता एव द्रष्टव्याः, न तु निश्चिताः, यथा 'गौरवान्त्र,
१ च. छ. ज. 'न म' । २ इह साध्यमवग्रहादीनां संशयादित्वं तथापि नाम अभ्युपगम्य भण्यते ज्ञानमेव संशयादयः ॥ ३१४ ॥ ३. क. ग. 'त्वादि' । ४ गाथा ३१० । ५ घ.छ.ज. 'तु च त' । x यसत्ये- 1)
.
१४
विलमव इव प्रतिभाति' इति । एतावन्मात्रेणैव चेयं विपर्ययोपलब्धिरवगन्तव्या न तु सर्वथा विपर्ययधर्मनिश्चयात्, सर्वथा विपर्यये तत्राऽश्वादिसत्त्वप्रसङ्गात् । न च वक्तव्यम् एवं सतीदमनिश्चिताद् न भिद्येत; तत्र परधर्मनिश्रितत्वाभावात्, विवक्षितवस्त्वभावशङ्कामात्रस्यैव सद्भावादिति । न च विपर्ययधर्मशङ्कामात्रेणाऽप्यज्ञानेता वस्तुप्राप्तिविघाताभावादिति । यदप्युक्तम्- 'अवग्रहो - मध्यवसायः' इति । तदप्ययुक्तम्, तत्र ह्यध्यवसायः साक्षादेव नास्ति, योग्यतया पुनरस्त्येव, अन्यथा तत्कार्येष्वपायादिष्वपि तदभावप्रसङ्गात्, इत्युक्तमेव । अतिमत्त-मूर्च्छितानामेव हि ज्ञानमनध्यवसाय उच्यते, तत्र योग्यतयाऽप्यध्यवसायस्य वक्तुमशक्यत्वात्, तत्कार्यभूतस्याऽपायाद्यध्यवसायस्याऽप्यलक्षणत्वात् । तदेवमवग्रहादीनामसिद्धं संशयादित्वम् । तथापि 'अभ्युपगन्तुं' अङ्गीकृत्याऽपि तेषां संशयादिरूपतां ब्रूमः - ज्ञानमेव संशयादयः संशय- विपर्यया ऽनध्यवसायाः । ततश्च संशयादिरूपत्वेऽपि नावग्रहादीनां मतिज्ञानभेदत्वं. विरुध्यत इति भावः । इदमुक्तं भवति नास्माभिः 'समीहितवस्तुमापकं ज्ञानम्, इतरदज्ञानम्' इत्येवं व्यवहारिणां प्रयाणा-Sप्रमाणभूते ज्ञाना-ज्ञाने विचारयितुमुपक्रान्ते, किन्तु 'ज्ञायते येन किमपि तत् सम्यग्दृष्टिसंबन्धि ज्ञानम्' इत्येतावन्मात्रकमेव व्याख्यातुमभिप्रेतम् ; वस्तुपरिज्ञानमात्रं तु संशयादिष्वपि विद्यते इति न तेषामपि सम्यग्दृष्टिसंबन्धिनां ज्ञानत्वहानिः ॥ इति गाथार्थः ॥ ३१४ ॥ कथं पुनः संशयादयो ज्ञानम् १, इत्याह
"वैत्थुस्स देसगमगत्तभावओ परमयप्पमाणं व । किह वत्थुदेसविण्णाणहेयवो, सुणसु तं वोच्छं ॥ ३१५ ॥ ज्ञानमेव संशयादयः, इति प्राक्तनी प्रतिज्ञा; वस्तुनो गवादेः स्व-परपर्यायैरनन्तधर्माध्यासितस्य यो देश एकदेशस्तस्य गमकत्वभावात् इति हेतुः पराभिमतं प्रमाणं निश्चयज्ञानरूपं तद्वदिति दृष्टान्तः । इह यद् वस्त्वेकदेशस्य गमकं तज् ज्ञानं दृष्टं, यथा परमतं निश्चयरूपं प्रमाणम्, वस्त्वेकदेशगमकाश्च संशयादयः, ततस्ते ज्ञानम् इति । अत्र हेतोरसिद्धतां मन्यमानः परः पृच्छति - कथं वस्त्वेकदेशविज्ञानहेतवः संशयादयः १, वस्तुनो निरंशत्वेन देशस्यैवाऽभावाद् न त एकदेशग्राहिणो घटन्त इति परस्याऽभिप्रायः । आचायः प्राह - यत् त्वया पृष्टं तद् वक्ष्ये भणिष्याम्यहम् शृणु समवहितः समाकर्णय स्वम् । इति गाथार्थः ॥ ३१५ ॥
9
यथाप्रतिज्ञातमेवाह
to वत्थुमत्थ- वयणाइपज्जयाणंतसत्तिसंपन्नं । तस्सेगदेसविच्छेयकारिणो संसयाईया ॥ ३१६ ॥
३. घ. छ. ज. 'ना' ।
१ क.ग. 'नम्' । २ वस्तुनो देशगमकत्वभावतः परमतप्रमाणमिव । कथं वस्तुदेशविज्ञानहेतवः शृणु सद् वक्ष्ये ॥ ३३५ ॥ ४ इह वस्त्वर्थ वचनादिपर्यायाऽनन्तशक्तिसंपन्नम् । तस्यैकदेशविच्छेदकारिणः संशयादयः ॥ ३३६ ॥ + निश्चित-1
For Private and Personal Use Only