________________
Shri Mahavir Jain Aradhana Kendra
1
विशेषा०
www.kobatirth.org
92
Acharya Shri Kailassagarsuri Gyanmandir
एतस्मादेवोक्तस्वरूपा
बहादिपदपसमूहात् प्रतिपक्षमेतद्विपर्ययमबह-बहुविधा- क्षिप्र - निश्रिताऽनिश्चिताऽध्रुवपदलक्षणं साधयेत् स्वयमेव ब्रूयाद् मेधावी । स च लाघवार्थ बहादिविचार एव साधितः । तदेवं व्याख्याता द्वादशापि बहादयो भेदाः । अथवा निश्रिते सप्रतिपक्षेऽपि व्याख्यानान्तरलक्षणो विशेषो वक्तव्यः । कः ?, इत्याह- परधर्मैरश्वादिवस्तुधर्मैर्विमिश्रं युक्तं गवादिवस्तु गृहानस्य निश्रितं भवति - गामश्वादिरूपेण गृहतो येयं विपर्ययोपलब्धिः, तन्निश्रितमित्यर्थः । इतरतु यत्परधर्मैर्विमिश्रं वस्तु न गृह्णाति, किन्तु यथावस्थितमेव तत्सद्भूतोपलब्धिरूपमनिश्रितं गवादिकं वस्तु गवादिरूपेणैव गृह्णतो येयमविपर्ययोपलब्धिस्तदनिश्रितमित्यर्थः ॥
अत्राह - ननु बहु-बहुविधपरिज्ञानादीनि विशेषणानि स्पष्टार्थग्राहकेष्वपायादिषु भवन्तु, व्यञ्जनावग्रह- निश्रयार्थावग्रहयोस्तु कथं तत्संभवः ?, तथाहि - 'सामन्नमणिद्देसं सरूव-नामाइकल्पणारहिये' इत्यादिवचनानिश्चयार्थावग्रहे शब्दादिविशेषमात्र ग्रहणमपि नास्ति, कुतो यथोक्तवह्नादिपरिज्ञान संभवः ? । अथ व्याख्यानाद् व्यवहारार्थावग्रहोत्र गृह्यते, तस्मिंश्च विशेषग्राहित्वाद् बहुपरिज्ञानादिविशेष... णान्युपपद्यन्त एव । भवत्वेवम्, तथाऽप्यष्टाविंशतिभेदमध्य संगृहीतस्य व्यञ्जनावग्रहस्य कथमेतद्विशेषणसंभवः १ । तत्र हि सामान्यार्थ - ग्रहणमात्रमपाकृतम्, बह्नादिपरिज्ञानं तु दूरोत्सारितमेवेति ॥
सत्यमेतत् किन्तु व्यञ्जनावग्रहादयः कारणमपायादीनाम् तानन्तरेणाऽपायाद्यभावात् । ततश्चाऽपायादिगतं बहादिपरिज्ञानं तत्कारणभूतेषु व्यञ्जनावग्रहादिष्वपि योग्यतयाऽभ्युपगन्तव्यम् । न हि सर्वथाऽविशिष्टात् कारणाद् विशिष्टं कार्यमुत्पत्तुमर्हति, कोद्रवीजादेरपि शालिफलादिप्रसवप्रसङ्गात्, इति प्रागप्युक्तप्रायम् । इत्यलमतिचर्चितेन । इति गाथार्थः ॥ ३१० ॥
aa sestarsi मतिज्ञानस्यैतावन्तो भेदाः १, इत्याशङ्कय निर्दिष्टभेदानां कारणम्, अन्येषामपि बहुतरभेदानां सहेतुकं संभव चोपसंहार गर्भमाह -
ऐवं बज्झ यंतरनिमित्तवइचित्तओ मइबहुत्तं । किंचिम्मेत्तविसेसेण भिज्जमाणं पुणोऽणतं ॥ ३११ ॥
एवं तावद् बाह्या - sऽभ्यन्तरनिमित्तवैचित्र्याद् मति बहुत्वमुक्तम् । तत्र बाह्यं निमित्तं मतिज्ञानस्य कारणमालोक-विषयादिकम् । तस्य च स्पष्टा ऽव्यक्त-मध्यमा ऽल्प- महत्व संनिकर्ष - विप्रकर्षभेदाद् वैचित्र्यम् ।। आभ्यन्तरनिमित्तं पुनरावरणक्षयोपशमो-पयोगो-पकरणेन्द्रि याणि । अस्याऽपि वैचित्र्यं शुद्धाशुद्ध-मध्यमभेदात् । ततचैतस्माद् बाह्याऽऽभ्यन्तरनिमित्तवैचित्र्याद् मतिज्ञानस्य यथोक्तभेद बहुत्वम
१ गाथा १५२ । २ एवं बाह्याभ्यन्तरनिमित्तवैचित्र्यतो मतिवहुत्वम् । किञ्चिन्मात्रविशेषेण भिद्यमानं पुनरनन्तम् ॥ ३११ ॥ भिहितमवगन्तव्यम् । एतदेव च मतिज्ञानं यथोक्तनिमित्तद्वयस्य किञ्चिन्मात्र भेदाद् भिद्यमानं पुनरनन्तमपि भवतीति प्रतिपत्तव्यम्, सामान्येन मतिज्ञानमात्रवतां जीवानामनन्तत्वात् तेषां च क्षयोपशमादिभेदेन मंतेर्भिन्नत्वादिति भावः ॥ इति गाथार्थः ॥ ३११ ॥ अत्राह कश्चित् - नन्ववग्रहादयो ज्ञानमेव न भवन्ति, स्पष्टार्थनिर्भासाद्यभावात्, संशयादिवत् इति कथममी मतिज्ञानभेदाः १, इत्याशङ्कयैतेषां ज्ञानत्वसाधनायाह
,
ईह संसयादणतभावाउ वग्गहादयो नाणं । अणुमाणमिवाह न संसयाइसन्भावउ तेसुं ॥ ३१२ ॥
अवग्रहादयो ज्ञानमिति प्रतिज्ञा, संशयादिष्वनन्तर्भावादिति हेतु:, आदिशब्दाद् विपर्यया ऽनध्यवसायपरिग्रहः ; अनुमानवदिति दृष्टान्तः । इह संशयाद्यनन्तर्भूतैर्वर्ण- गन्धादिभिः पुद्गलद्रव्यैर्व्यभिचारसंभवात्, सूत्रस्य च सूचकत्वात् 'आत्मधर्मत्वे सति संशयाधनन्तर्भावात्' इति सविशेषणो हेतुर्दष्टव्यः । अत्राह पर:- ननु सविशेषणे हेतावनैकान्तिकता मा भूत्, असिद्धता त्वनिवार्यैवेति । एतदेवाह - 'न संसयाईत्यादि' सूरे ! न तद् भवदीयं वचः । कुतः १, इत्याह- संशयादिसद्भावतस्तेष्ववग्रहादिषु तेषां संशयादिरूपत्वात् संशयाद्यनन्तर्भावात् इत्यसिद्धो हेतुरिति भावः । इति गाथार्थः ॥ ३१२ ॥
कथं पुनस्तेषु संशयादिसद्भावः १, इत्याह
ननु संदिद्धे संसय-विवज्जया संसओ ह चेहा वि । वच्चासो वा निस्सियमवग्गहोऽणज्झवसियं तु ॥ ३१३ ॥
,
ननु 'खिष्पमचिरेण ' इत्यादिगाथायां तु यदुक्तम्- 'निच्छियमसंसयं जं ति' तत्प्रतिपक्षे यदुच्यते- 'कोऽपि संदिग्धं गुणति' इति, तत्र संदिग्धे ज्ञायमाने संशयस्तावद् व्यक्त एव यत्र च संशयस्तत्र संदिहानस्य कदाचिद् विपर्ययोऽपि स्यादः इत्येवं संदिग्धे संशय-विपर्ययौ तावदनिवारितावेव । अथवा, किमनेनोत्तरभेदरूपे संदिग्धे दूषणप्रदानेन १, हन्त ! येयं मूलभेदरूपेहा साऽपि संशय एत्र, निश्चयत्वे तस्या अपायत्वप्रसङ्गादिति । अथवा 'परधम्मेहि विमिस्सं निस्सियं' इत्यत्र यद् निश्रितमुक्तं, तदपि गवादिकमश्वादिरूपेण गृह विपर्यास एव । न हि नृत्यन् विपर्यासो भवति, किन्त्वन्यस्यान्यरूपेण ग्रहणमेवेति भावः । नैश्चयिकार्थावग्रहरूपीsaग्रहः पुनरनध्यवसितमनभ्यवसाय एव, अनिर्देश्यसामान्यमात्रग्राहित्वात् न ह्यत्र कस्याऽप्यर्थस्य संबन्ध्यध्यवसायोऽस्तीति कृत्वा ।
१. इह संशयाद्यनन्तर्भावादवग्रहादयो ज्ञानम् । अनुमानमिवाऽऽह-न, संशयादिसद्भावतस्तेषु ॥ ३१२ ॥ २क. ग. घ. छ. 'लधर्मैर्व्य' 1+इति तन्- | ३ ननु संदिग्धे संशय-विपर्ययौ संशय इह नेहाऽपि । व्यत्यासो वा निश्रितमवमहोऽनध्यवसितं तु ॥ ११३ ॥ ४ गाथा - ३०९।४ सु- । ५ ध. ज. 'कस्यचि' । ६ गाथा ३१० । (भा) ।
For Private and Personal Use Only