________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८६) ३॥ द्वितीयं प्रमेयस्य सादृशता ।साप्यत्र न दृश्यते ब्रह्मदृश्ययो विपरीतत्वात्॥ न च तृतीयं प्रमातरि भयलोभादिकं दृश्यते, अध्यासात्पूर्वं प्रमातुरेवाभावात् दृरतरा तत्र दोषसंभावना । अत एव न तुर्य साधनं प्रमाणगतपित्तकामलादिकं । तस्यापि प्रमाणस्याध्यासात्पूर्वमसंभवात् कुतश्च दोषसंभावना।
नापि पंचमं मिथ्यात्वस्य साधकं साधनमस्ति । तच्चाधिष्ठानस्य सामान्यज्ञानं विशेषतश्चाज्ञानमिति। निरंशे स्वप्रकाशे च ब्रह्मणि कुतः संभवति विशेषरूपस्याज्ञानं सूर्येऽधकारमिव । कुतश्च निरंशे सामान्य विशेषभावश्च । तस्मात्पंचविधां कारणसामग्री विना मिथ्यात्वस्याभावाद्भवति जगत्सत्यं । तस्य ज्ञानेन. निवृत्त्यसंभवात्कुतः परमानंदप्राप्तिः कुतश्च ग्रंथस्य प्रयोजनसिद्धिर्वा इति चेत्तत्राद समाधानं ॥
४॥ यदुक्तं सत्यवस्तुनो ज्ञानजन्यसंस्का रो यदि पूर्व भवेत्स एव भ्रमस्य कारणं भवतीति नियमो नास्ति । किं तु मिथ्यावस्तुनो ज्ञानजन्य. संस्कारोऽपि भ्रमस्य कारणं भवति यथा पूर्व सत्यसर्पमदृष्ट्वा इंद्रजालविनिर्मितं सर्प दृष्ट्वापि
For Private and Personal Use Only