________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न तु गजादौ मयि गजो वाऽहंगजश्चेत्यायनुभवो जायते तादृक्निमित्तकारणानुभवजन्यसंस्कारस्याभावात् ॥
३ ॥ न च पूर्वानुभवस्य का गतिः संसारस्यो. त्पत्तिमत्वादितिवाच्यं प्रवाहरूपेणानादिस्वीकारात् अनादिपक्षे तु सर्वे पदार्थाः पूर्वस्मादुत्तराएव भवंतिते सर्वेऽनिर्वचनीयाः सदसद्विलक्षणा भवंति ताहगनुभवात्यथा शुक्तौ रजतमिति ॥
४ ॥ ननु यदुक्तं रजतं सदसद्विलक्षणमनिर्व चनीयमिति तन्नसंभवति किंतु निर्वचनीयमेव भ. वति सद्विलक्षणमसत् तथाऽसद्विलक्षणं तु सदिति वक्तुं शक्यतेऽनिर्वचनीयं नामवक्तुमशक्यमितिकथं भवेदनुभवविरोधादितिचेत्तत्र ॥
५ ॥ समाधान-यत्पूर्वोक्तं वाक्यं तछाक्यं सदसदज्ञानिन एव न तु विवेकिनइदं वाक्यं भवति ॥तथादि॥ शुक्तौ यद्रजतं तदसतः खपुष्पाधिलक्षणं नेत्रजन्यज्ञानविषयत्यातू खपुष्पस्प नेत्राविषयत्वात
For Private and Personal Use Only