________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०) ४॥स्वप्ने तु साक्ष्याश्रिताऽविद्या तमोगुणेन विषयाकारं सत्वगुणेन च ज्ञानाकारं परिणमते तथासति बाह्यसर्पादिभ्रमं स्वप्नंचांतर्धमं साक्ष्येवाऽविद्यावृत्या प्रकाशते सर्पादिभ्रमोऽविद्यायाः परिणामश्चेतनस्य च विवर्तएव “उपादान समसत्ताकत्वे सत्यन्यथा स्वरूपः परिणामः" "उपादानविपरीतसत्ताकत्वे सत्यन्यथा स्वरूपो विवर्तः” अन्यत्रापि स्वस्वरूपमपरित्यज्य रूपांतरप्राप्तिर्विवर्तः स्वस्वरूपं परित्यज्य रूपांतर प्राप्तिः परिणाम इति प्रतिपादितः
५ ॥ मिथ्या सर्पस्याधिष्ठानं रज्जूपहितचेतनं न तु रज्जूमात्रं रज्जोरपि सर्पवत्कल्पितत्वात् कल्पितं च कल्पितस्याधिष्टानं न भवति ततो रज्जु. विशिष्ट चेतनमप्यधिष्ठानं न संभवति विशिष्टवर्ति धर्मस्य विशेषणवर्तित्वनियमात् ॥
ननु अधिष्ठानज्ञानादध्यस्तस्य निवृतिर्भवतीति नियमात रज्जूपहितचेतनमेवसर्पस्याधिष्ठानं न र. ज्जुमात्रं ॥ चेतनस्यातींद्रियत्वात्
For Private and Personal Use Only