SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८) २॥ एवं सांख्यमते पंचविंशति तत्त्वानि संति। सांख्यमते तु ईश्वर स्यांगीकारो नास्ति, प्रधानमेब जगत्कारणमस्ति । तदेव प्रधानं पुरुषस्य भोगार्थ विषयाकारेण परिणमते, पुरुषस्य मोक्षार्थं च बुद्धौ विवेकरूपेणापि तदेव प्रधानं परिणमते ॥ ३॥ तथा सति वस्तुतस्तु असंगपुरुषे वंधमोक्षौ द्वौ न स्तः ॥ तथापि असंगोऽहमित्यविवेकादात्मनि बुद्धिधर्मान् ज्ञानसुखदुःखरागद्वेषादीन् मत्वा बंधं प्राप्नोति कर्तृत्वादिकं चाप्नोति। यदा तु रागद्वेषयुक्ताया बुद्धे रसंगोऽस्मीति यस्य विवेको जायते तस्यैव मुक्तिर्भवति न त्वन्यस्य तस्मादेव सांख्यमते नानाssस्मानो भवंति, न त्वेकात्मा. इति सांख्यस्य मतम्। ४॥ तत्तु सांख्यस्य मतं समीचीनं न भवति, वेद. विरुद्धत्वात् । वेदे हि, ' एकमेवाद्वितीयं ब्रह्म' इति 'हितीयादै भयं भवति' इति च प्रतिपादितं । किंच बुद्धौ नानात्वं बंधमोक्षी कर्तृत्वभोक्तृत्वमपि मत्वा पुरुषस्यासंगत्वं च मत्वाऽऽत्मनि नानात्वकथनस्य निफलत्वाच्च । तस्मात्सांख्यभतमनंगीकार्यमस्तीति ॥ [इति द्वितीयकमलं समाप्तं ] For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy