________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ५॥
१३०
-
फलेरितजादेश्च पः ॥ ३४ ॥ पलितम् ॥ ३४ ॥
कुत्रादिभ्यः संज्ञायां वुन् ॥३५॥ करकः । कटकः। नरकम् । कोरकः ॥ ३५॥
चीकयतेराद्यन्तविपर्ययश्च ॥ ३६ ॥ कीचकः । ३६ ॥ पचिमच्योरिचोपधायाः ।। ३७ ॥ पेचकः । मेचकः।३७॥ जनेररष्ठ च ।। ३८ ॥ जठरम् । ३८ ।। वचिमनिभ्यां चिच्च ॥ ३९ ॥ वठरः । मठरः । ३९ ॥ ऊर्जिट्टणातेरलचौ ॥४०॥ ऊर्दरः। ४० ॥
( ३४ ) फलति निष्पन्न पक्वमिव भवतीति पलितम् । केशश्चैत्यं वा। फस्य पः ॥
( ३५ ) करोतीति करकः । करका । वृष्टिपाषाणो वा । करको दाडिमः । कमण्डलुर्वा । कटति वर्षत्यावृणोति वा स कटकः । बाहुभूषमाम् । शिखरो वा । नमाति नयतीति नरकम् । पापभागो वा। सरति गच्छतीति सरकम् । गमनं वा । अति भूषिता भवतीत्यलकम् । शीतादिकं वा। अलति वारयति येभ्यस्तेऽलकाः । कुटिलाः केशा वा । कुरति शब्दयतीति कोरकः । कलिका ( कली ) इति प्रसिद्धा ॥
(३६) चीकयते सहतेऽसौ कीचकः । वंशभेदो वा ।।
( ३० ) पचतीति पेचकः । उलकपक्षी वा । मचते शब्दयतीति मेंचकः । कृष्णवर्णो मयूरपक्षचिन्हं वा ॥
(३८) जायतेऽस्मादिति जठरम् । उदरम् । कठिनं वा ॥.
( ३६ ) अन्त्यस्य ठः । वतीति वठरः । मूर्ख वा । मन्यतेऽसौ मटरः। मुनिभेदो मतो वा । तस्यापत्यं माठरः । माठयः ॥
(४० ) ऊर्क पराक्रमं रसं वा दृमातीति, उर्दरः । शूरो दुष्टो वा। स्वरभेदार्थ प्रत्ययद्वयम् ॥
।
-
For Private And Personal Use Only