________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
उणादिकोषः ॥
कलिगलिभ्यां फगस्योच्च ॥ २६ ॥ कुल्फः । गुल्फः ॥२६॥ स्पृशः श्वएशनौ पृ च ॥ २७ ॥ पार्श्वः । पशुः ॥ २७॥ श्मनि श्रयतेईन् ॥ २८ ॥ श्मश्रु ॥ २८ ॥ अश्वादयश्च ॥ २९॥ अश्रु ॥ २९ ॥ जनेष्टन नलोपश्च ॥ ३० ॥ जटा ॥ ३० ॥ अच तस्य जय च ॥ ३१ ॥ जङ्घा ॥ ३१॥ हन्तः शरीरावयवे हे च ॥ ३२ ॥ जघनम् ॥ ३२ ॥ क्लिशेरन् लो लोपश्च ॥ ३३ ॥ केशः ॥ ३३॥
( २६ ) कलति संख्यातोति कुल्फः । शरीरावयवो रोगो वा । गलति भक्षयतीति गुल्फः । पादग्रन्थिा ।
(२०) स्पृशति येन स पार्श्वः । कक्षयोरधोभागोवा । पशुः। आयुधं वा।
(२८) श्मनि मुखे यतीति, श्मश्रु । श्मश्रुणी । श्मणि । पुरुषमुखरोमाणि वा ॥
( २६ ) अश्नुते व्याप्नोतीति, अश्र । नेत्रजलं वा । डुन प्रत्ययो रंडागमश्च । एवमन्येऽपि यथायोग्यं द्रष्टव्याः ॥
(३० ) जायतेऽसौ जटा । दीर्घाः केशा वा । जटा अस्य सन्तीति नटालः । सिध्मादित्वाल्लच् । जटिलः । पिच्छादित्वादिलच् ॥
( ३१ ) तस्य जनः । जायतेऽसौ जङ्घा । जानारधोभागो वा ।।
( ३२ ) हन्ति येन यद् वा हन्यते तज्जघनम् । जानोपरिभागो वा । इवार्थे शाखादित्वाद्यः । जघनमिव जघन्यं नीचम् ॥
(३३ ) क्लियति येन स केशः । शिरलोमानि वा । केशा प्रस्य सन्तोति केशवः । केशिकः । केशी ॥
For Private And Personal Use Only