________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ५॥
-
हिंसेरीरन्नीरचौ ॥ १८॥ हिंसीरः ॥ १८॥ उदि दृणातेरलचौ पूर्वपदान्त्यलोपश्च ॥१९॥ उदरम् ॥१९॥ डित्खनेर्मुट चोदात्तः ॥ २० ॥ मुखम् ॥ २० ॥ अमेः सन् ॥ २१ ॥ अंसः ॥ २१ मुहेः खो मूर्च ॥ २२ ॥ मूर्खः ॥ २२ ॥ नहेर्हलोपश्च ॥ २३ ॥ नखः ॥ २३ ॥ शीडो हुस्वश्च ॥ २४ ॥ शिरवा ॥ २४ ॥ माङ ऊखो मय च ॥ २५॥ मयूरवः ॥ २५॥ ( १८) हिनस्तीति हिंसीरः।व्याघ्रो दुष्टो वा । प्रत्ययद्वयं स्वरभेदार्थम् ॥
( १६ ) उद् दृणाति येनानमिति उदरम् । कुक्षिस्थानम् । प्रत्ययभेदोऽत्रापि स्वरभेदार्थः ॥
(२०) खनेरलचौ । तयोर्डित्त्वं धातोर्मुडागमश्च । तस्योदात्तत्वम् । खनत्यनादिकमनेनेति मुखमास्यम् । मुखे भवो मुख्यो रोगः । शरीरावयवाद्यत् । मुखमिवोत्तमं मुख्यम् । शाखादित्वादिवाथै यः ॥
(२१. ) अमति गच्छति प्राप्नोति येन स, अंसः । स्कन्धो विभागो वा । अंसोऽस्यास्तोत्यंसलः ॥ .
( २२ ) मुह्यति विक्षिप्त इव भवतीति मूर्खः । मूर्खस्य भावो मौख्यं । मूर्खिमा वा । बहुलकात-स्वस्येनादेशाभावः ।।
( २३ ) नयति बध्नाति रुधिरादिकमिति नखः । प्राण्यङ्गं वा ॥
( २४ ). खः । शतेऽसौ शिखा। चड़ाकेशभेदो ज्वाला वा । हस्वविधानसामर्थ्याद् गुणाऽभावः ॥
( २५ ) मिमीते मान्यहेतुर्भवतीति मयूखः । किरणः । कान्तिः। करो ज्वाला वा ॥
For Private And Personal Use Only