________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ५॥
१३३
अदिभुवो डुतच ॥ १ ॥ अद्भुतम् । १ ॥ गुधेरूमः ॥ २॥ गोधूमः । २॥ मसेरूरन् ॥ ३॥ मसूरः । ३॥ स्थः किञ्च ॥ १ ॥ स्थूरः । ४ ॥ पातेरतिः ॥ ५ पातिः । ५॥ वातेनित ॥६॥वातिः । ६॥ अर्नेश्च ॥ ७॥ अरतिः ॥७॥ तृहेको हलोपश्च ॥ ८॥ तृणम् ॥ ८॥ वृजलुटितनिताडिभ्य उलच् तण्डश्च ॥९॥ तण्डुलाः ॥९॥
(१) अदित्यव्ययं कदाचिदर्थे । अद् भवतीत्यद्भुतम् । आश्चर्यम् । अद्भुतमधीते । अद्भुताध्यापकः ॥
(२) गुति वेष्टयतीति गोधूमः । अन्नविशेषो वा । गोधूमस्य विकारो गोधममयः ॥
(३) मस्यति परिणमतेऽसौ मसूरः । वीहिभेदो वेश्या वा ॥ ( ४ ) तिष्ठतीति स्थरः । मनुष्यो वा । तस्यापत्यं स्थौर्यः ॥ (५) पाति रक्षतोति पातिः । स्वामी । सम्पातिः । पक्षिराजो वा ॥ (६) वाति गच्छतीति वातिः । सूर्यश्चन्द्रो वा ॥ (0) अर्यते गम्यते सा अतिः। उद्वेगो वा ॥ (८) तृह्यते हन्यते तत्, तमाम् । प्रसिद्धमेव ॥
(E) वियन्ते लुव्यन्ते तन्यन्ते ताडयन्ते वा ते तण्डुलाः। प्रसिद्धा वा। वृञादीनां स्थाने तण्डादेशः ॥
For Private And Personal Use Only