________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
उणादिकोषः ।
अङ्गरसिः॥ २३६ ॥ अङ्गिराः । २३६ ॥ सरप्पूर्वादसिः ॥ २३७ ॥ अप्सराः ॥ २३७॥ विदिभुजिभ्यां विश्वेऽसिः ॥ २३८ ॥ विश्ववेदाः । विश्वभोजाः ॥ २३८ ॥ वशेः कनसिः ॥ २३९ ॥ उशनाः । २३९ ॥
इत्युणादिषु चतुर्थः पादः ॥
( २३६ ) अङ्गति प्राप्नोति जानाति वा स, अङ्गिराः । ईश्वरोऽमिषिभेदो वा । तस्यापत्यमाङ्गिरसः । असिप्रत्ययस्य रुडागमः ॥
( २३० ) अपसरति विरुद्धं गच्छतीत्यसराः । उपसर्गानत्यलोपः । अथवाऽप्सु जलेषु प्राणेषु वा सरन्तीत्यपसरसः । किरणा वा । अथवा न प्सान्ति भक्षयन्ति रक्षां कुर्वन्तोत्यपसरसः । प्रत्ययस्य रुट । नित्यबहुवचनान्तः स्त्रीलिङ्गश्च ॥
- ( २३८ ) विश्वं सर्व वेत्ति जानातीति विश्ववेदाः । अगदीश्वरो वा। विश्वे विद्यते विश्वं वा विन्दति स विश्ववेदाः। अमि। विश्वं भुनक्ति। प्रलयसमये कारणरूपेण स्वात्मनि स्थापयति वा विश्वं पालयतीति विश्वभोजाः । ईश्वरो राजा वा ॥
(२३६ ) वष्टि कामयते स उशनाः । शुक्रवारी वा । सम्प्रसारणादिकार्यम् ॥
इत्युणादिव्याख्यायां वैदिकलौकिककोषे चतुर्थः पादः ॥
For Private And Personal Use Only