________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा०४॥
१२६
देशेऽह च ॥ २१५ ॥ रहः ॥ २१५ ॥
अञ्च्यजियुजिभृजिभ्यः कुश्च ॥२१६॥ अङ्कः। अङ्गः । योगः । भर्गः ॥ २१६ ॥
भरञ्जिभ्यां कित् ॥२१७॥ भुवः। रजः ॥ २१७॥ वर्णित् ॥ २१८॥ वासः॥ २१८ ॥ चन्देरादेश्च छः ॥ २१९॥ छन्दः ॥ ॥ २१९ ॥ पचिवचिभ्यां सुट् च ॥ २२० ॥ पक्षः। वक्षः ॥ २२० ॥
( २१५) चाद्रमेरसन । रमन्तेस्मिन्निति रहः । एकान्तो विश्वासदेशो वा। रह एकान्ते भवं रहस्यम् । वेदान्तं वा । देशादन्यत्र रहोऽव्ययं शब्दान्तरं वास्ति । रहो मैथुनसमयस्तत्र भवं रहस्यं मैथुनम् । दिगादित्वायत् ॥
( २१६ ) अऽचति गच्छति येन तत् अङ्कः । सङ्ख्याद्योतकं चिन्हं वा। अनक्ति व्यक्तीकरोतीति अङ्गः । पक्षी वा । अवयवेऽङ्गशब्दोऽदन्तः । युज्यते स योगः । समाधिः । कालो वा । भर्जीत पक्कं भवतीति भर्गः । प्रजापतिः । तेजो वा। बाहुलकात-उच्यते यत्र तत् ओकः । स्थानं वा । न्यवादित्वात् कुत्वम् ॥
(२१० ) भवन्ति यस्मिन्निति भुवः । अन्तरिक्षं वा । रजति तत् रजः । लोकः । सूक्षमलिः । स्त्रीपुष्पम् । गुणों वा । आकारान्तश्च ॥
(२१८ ) वस्त आच्छादयति शरीरादिकमनेन तत वासो वस्त्रं वा। असुनो णिवावादृद्धिः ॥
( २१६ ) चन्दति हृष्यति येन दीप्यते वा तत् छन्दः । गायच्यादि । कपटमिच्छाऽभिप्रायो वशो वा । छन्दानुवृत्तिः । इत्यादि प्रयोगदर्शनादकारान्तोऽप्ययं शब्द इति मन्तव्यम् ॥
( २२० ) पचतीति पक्षः । पूर्वोत्तरपक्षौ वा । वक्ति येन तद्वतः। हृदयं वा॥
-
-
१७
For Private And Personal Use Only