________________
Shri Mahavir Jain Aradhana Kendra
१२६
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
शेर्देवने युट् च ॥ १९१ ॥ यशः ॥ १९१ ॥ उब्जेर्बले बलोपश्च ॥ १९२ ॥ ओजः || १९२ ॥ श्वेः सम्प्रसारणं च १९३ ॥ शवः ॥ १९३॥ श्रयतेः स्वाङ्गे शिरः किच्च ॥ १९४ ॥ शिरः ॥ १९४॥
अरुश्च ॥ १९५ ॥ उरः ॥ १९५ ॥
व्याधौ शुट् च ॥ १९६ ॥ अर्शः ॥ १९६ ॥ उदके नुट् च ॥ १९७ ॥ अर्णः ॥ १९७ ॥ इ आगसि ॥ १९८ ॥ एनः ॥ १९८ ॥
( १६१ ) अश्यते दीष्यते क्रीडादि क्रियते येन तत्, यशः । कीर्त्तिवी ॥ ( १६२ ) उञ्जति कोमलो भवतीति आजः । पराक्रमा वा । ओजसा वर्तते औजसिकः । ठक्
॥
( १६३ ) श्वर्यात गच्छतीति शवः । मृतकशरीरं वा । बाहुलकात्वहति यत् इति ऊधः । गवादेर्दुग्धस्थानं वा । धातोः सम्प्रसारणे कृते दीर्घत्वं धकारश्चान्तादेशः । घट इवोधो यस्याः सा घटोध्नी । कुण्डोधनी । गौर्महिषी वा ॥
( १६४ ) श्रीयत आश्रयते तत् शिरः । मस्तकम् । शिरसी । शिरांसि || ( १६५ ) स्वाङ्ग इत्यनुवर्तते । ऋच्छति प्राप्नोति येन तत्, उरः । हृदयस्थानं वा । पिच्छादित्वादिलच् । बहूरोऽस्यास्तीत्युरसिल: ॥
( १६६ ) ऋच्छति प्राप्नोति दुखं येन तत्, अर्श: । गुदरोगो वा । अस्यास्तीत्यर्शसः पुमान् । अर्श आदित्वादच् ॥
|
( १६० ) अतरित्येव । ऋच्छति गच्छतीत्य जलम् । अर्णोऽस्मिन्त्रस्तोत्यवः समुद्रः । वप्रत्यये सलोपः ॥
( १६८ ) ईयते प्राप्यते दुःखमनेन तदेनः । पापं वा ॥
For Private And Personal Use Only