________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ४ ॥
११५
वातेर्डिच्च ॥ १३४ ॥ विः ॥ १३४ ॥ प्रे हरतेः कूपे ॥ १३५॥ प्रहिः ॥ १३५॥ नौ व्यो यलोपः पूर्वस्य च दीर्घः ॥१३६॥नीविः ॥१३६॥ समाने ख्यः स चोदात्तः ॥ १३७ ॥ सखा ॥ १३७ ॥ आडि टिहनिभ्यां इस्वश्च ॥१३८॥अश्रिः। अहिः ॥१३८॥ अच इः ॥१३९॥रविः। कविः। पविः। अरिः।अलिः॥१३९॥
( १३४ ) वाति वायुवद्गच्छंतीति विः । पक्षी वा । हित्वादाकारलोपः । अटन्ति वयोऽस्यामित्यटविनगरी । पदस्य विः पदवी ॥ .
(१३५) इण-डित् । प्रहरति जलमस्मात स पहिः कूपी वा। कूपादन्यत्र हरिः ॥
(१३६ ) पूर्वस्योपसर्गस्य दीर्घः । निवीयते संत्रियते सा नीविः । नीवो । मूलधनं दकूलबन्धनं वा ॥
(१३० ) समानं ख्यातीति सखा । सखायौ । सखायः । मित्रं सहायो वा ॥
(१३८ ) पात्रात तति, अत्रिः । कोणोधा । आहन्तीति, अहिः । मेघः सो वा । अनाङपसर्गस्यैव हस्वत्वम् ॥
(१३६ ) अजन्ताहातोरिः प्रत्ययः । लुनाति छिनतोति लविः । छेदको लाहो वा । पुनातीति पविः । वज्र होरकं वा । तति येन स तरिः । वस्त्रादिस्थापनभाण्डं वा । स्त्रियां तरी । रौतोति रविः । सूर्यो वा । कौति शब्दयत्युपदिशति स कविः । मेधावी विद्वान । क्रान्तदर्शनो वा । स्त्रियां कवी । ऋच्छति प्राप्नोति परपदार्थानियरिः । शत्रुर्वा । कपिलकादित्यालत्वे । अलिः । भ्रमरो वा । नखेनातिकामतोति नखयति तस्मात् । नखिः । सूचयतोति सूचिः ॥ इत्यादि ।
For Private And Personal Use Only