________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
उणादिकोषः ॥ शमेर्वन् ॥ ९४ ॥ शंवः ॥ ९४ ॥ उल्वादयश्च ॥ ९५ ॥ उल्वम् । विल्वम् ॥ ९५॥ स्थः स्तोऽम्बजवको ॥ ९६ ॥ स्तम्बः । स्तवकः ॥ ९६ ॥ शाशपिभ्यां ददनौ ॥ ९७ ॥ शादः । शब्दः ॥ ९७ ॥ अब्दादयश्च ॥ ९८॥ अब्दः । कुन्दः ॥ ९८॥
(६४ ) शाम्यतीति शंवः । मुसलस्य लोहमुखं वा । शामी इति । प्रसिद्धा ॥ ____(६५) वन प्रत्ययान्ता निपाताः । उच्यति समवैतीति उल्वः । गर्भो वा । चकारस्य लत्वं गुणाभावश्च । शोचतीति शुल्वम् । तानं वा । पूर्वक सर्वम् । नयति प्रापयतीति शुभगुणानिति निंवः । वृक्षभेदो वा । वीयते काम्यते तत् विवम् । मण्डलमोषधिविशेषो वा । अत्रोभयत्र नी वी धातोर्नमागमो हुस्वत्वं च । स्त्रियां गौरादित्वात्। विंवी । विवफलमिवोष्ठौ यस्याः सा विवोष्ठी कन्या । दधाति धान्यहेतुर्भवतीति धन्वम् । धनुवा । तद्योगादुन्वी जनः । जति भक्षयतीति जवः । पको वा ॥
(६६) अम्बच अवक इत्येतौ प्रत्ययौ । तिष्ठतोति स्तम्बः । शाखाशून्यो बोह्यादेर्गच्छो वा । स्तवकः । पुष्पगुच्छो वा ॥
(६७ ) श्यति सूक्ष्मं करोतीति शादः । कर्दमो बालतृणं वा । शप्यत पाहयतेऽनेन स शब्दो नादः । पस्य बः ॥
(८) ददन प्रत्ययान्ता निपाताः । अवति रक्षणादिकं करोतीति अब्दः। संवत्सरोऽवसरो मेघो वा । कौति शब्ट यतोति कुन्दः । पुष्पजातिर्वा । धातोर्नुम् । वृणोतीति वृन्दं सम हो वा ! नुम् गुणाभावश्च । कति दीप्यतेऽसौ कन्दः । सस्य मूलं सूकरो वा। तुदति व्यथतोति तुन्दः स्थूलमुदरं वा । तुन्दी स्थूलोदरी । धातोर्नुम् ॥
For Private And Personal Use Only