________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ४ ॥
दल्मिः ॥१७॥ वीज्याज्वरिभ्यो निः ॥४८॥वेणिः।ज्यानिः । जूर्णिः ॥१८॥ सृवृषिभ्यां कित् ॥ १९ ॥ सृणिः । वृष्णिः ॥ १९ ॥ भङ्ग लोपश्च ॥ ५० ॥ अग्निः ॥ ५० ॥ वहिनिश्रुयुद्रग्लाहात्वरिभ्यो नित् ॥५१॥ वहिः । श्रेणिः। श्रोणिः॥ योनिः।द्रोणिः । ग्लानिः। हानिः। तर्णि ॥५१॥
(४७) दलतियेन विदणातीति दलिमः । सूर्यकिरण उत्तमायुधं वा॥
(४८) वीयते क्षिप्यते स वेणिः । केशविन्यासो वा । निपातनाएणत्यम् । जिनाति क्योहीनो भवतीति ज्यानिः । क्षतिर्वा । ज्वरति रोगी भवतीति जूर्णिः । स्त्रीरोगो वा। बाहुलकात-क्षौति शब्दयतीति चोणिः । डीष क्षोणी । मिर्वा । क्रोणातीति क्रोणिः । क्रेणी ॥
(४६ ) सरति गच्छतीति सृणिः । अनुशं वा। वर्षतीति वृष्णिः । क्षत्रियो वैश्यो वा।
(५०) अङ्गति गच्छति प्राप्नोति जानाति वा सोऽमिः । बहिः । प्रसिद्धो वा ॥
(५५) वहतीति वहिः । अग्निर्वा । अति सेवतेऽसौ श्रेणिः । परिवी । निपूर्वान्निश्रेणी । अधिरोहणी वा । शृणोतीति श्रोणिः । कटिप्रदेशो वा । यौति संयोजयति पृथक् करोति वा स योनिः । कारणमुपस्थेन्द्रियं वा । द्रवन्ति गच्छन्ति यत्र स द्रोणिः । सेचनी देशविशेषो वा । ग्लायति यस्मिन् स ग्लानिः । दौर्बल्यं दौमनस्यं वा । हीयते जहाति वा स हानिः । अपचयो वा । प्रहाणिः । परिहाणिः । कृत्यच इति णत्वम् । त्वरति सम्यग्भ्रमतोति तर्णिः । मनो वा । बहुलवचनात-शेतेऽसौ शिनिः । क्षत्रियो वा। धातोई स्वत्वं च । वायतीति म्लानिः । आनन्दयो वा ॥
--
For Private And Personal Use Only