________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
me
m
oria
वलेरूकः ॥ ४० ॥ वलकः ॥ ४०॥
उलूकादयश्च ॥ ११ ॥ उलूकः । वावदूकः । भल्लूकः । शम्बूकः ॥११॥
शलिमण्डिभ्यामूकम् ॥४२॥ शालूकम् । मण्डुकः ॥१२॥ नियो मिः ॥ ४३ । नेमिः ॥४३॥ अर्जेरुच ॥१४॥ ऊमिः ॥४४॥ भुवः कित् ॥ ४५ ॥ भूमिः ॥ १५ ॥ प्रश्नोतेरशच् ॥ ४६ ॥ रश्मिः ।। ४६ ॥ (४० ) वलते संवृशोतीप्ति क्लकः । पक्षी कमलमूलं वा ॥
(४१) ऊक प्रत्ययान्ता निपात्यन्ते । वलतेऽसावुलकः । पक्षिभेदो वा । धातोः सम्प्रसारणम् । भृशं वक्तीति वावदूको वक्ता । यहलुगन्तादूकः । जलशुक्तिवाँ । धातोर्बुक् । बाहुलकादकप्रत्यये शम्बुक इत्यपि सिद्धम् । भल्लते परितोभाषतेऽसौ भल्लकः । ऋक्षो वा । बाहुलकाद् इस्वे भल्लक इत्यपि । तथा भलतेऽसौ भालकः स एव । महतीति मधूकः । वृक्षभेदो वा । तथा । एलकजम्बूकबन्धकवास्तूकादयोऽप्यचैव द्रष्टव्याः ॥
(४२) शल्यते प्राप्यते यत्तत, शालकम् । मूलद्रव्यं वा । मण्डति शोभते ऽसौ मण्डूकः । भेको जलजन्तुर्वा ॥ ___(४३) नयतीति नेमिः । चक्रावयवी वा । बाहुलकात-याति कायर्याणि प्रापयतीति यामिः । प्रादेर्जत्वं नामिः । स्वसा कुलस्त्री वा।
(४४) ऋच्छति गच्छतीत्यूमिः । जलतरङ्गो वा।
( ४५ ) भवन्ति पदार्था प्रस्यामिति भूमिः । उत्पत्तिस्थानम् । अल्पा भूमिभूमिका । कृदिकारादिति डोष भूमी ॥
(४६) अश्नुते व्यामोतीति रश्मिः । किरणो रज्जुर्वा ।
-
-
-
For Private And Personal Use Only