________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
उगादिकोषः ॥
-
कृत्र उच्च ॥ ३३॥ कुरीरम् ॥ ३३ ॥ घसः किच ॥ ३४ ॥ क्षीरम् ॥ ३४ ॥ गभीरगम्भीरौ ॥ ३५ ॥ विषाविहा ॥ ३६ ॥ पच एलिमच् ॥ ३७॥ पचेलिमः ॥ ३७॥
शीङो धुक्लकवलवालनः ॥ ३८ ॥ शीधु । शीलम् । शैवलः । शेवालम् । शेपालः ॥ ३८॥
मृकणिभ्यामूकोकणौ ॥ ३९ ॥ मरूकः । काणूकः ॥३९॥
(३३ ) क्रियते तत् कुरीरम् । मैथुनं वा । कपिलकादित्वाल्लत्वे कुलीरः। जलजन्तुभेदो वा ॥
(३४ ) अद्यते भक्ष्यते यत्तत् क्षीरं दुग्धं वा ॥
(३५ ) गमधातोर्मकारस्य भकार एकस्मिन पक्षे नुमागमश्च । गम्यते प्राप्यते ज्ञायते वा स गभीरः शान्तो महाशयो वा। विशेष्यालगावेतौ शब्दौ ॥
(३६) विशेषेण स्थति कर्मान्तं करोतीति विषा । बुद्धिी । विशेषण जहाति त्यजति दुःखमिति विहा। सुखलोको वा । स्वभावाइनयोरव्ययत्वम् ॥
(३७) पचति पदार्थानिति पचेलिमः । अग्निः सूर्यो वा। यस्तु पचधातोः सामान्यवार्तिकेन कृत्यार्थ केलिमज् विधीयते स भावे कर्मणि कर्मकर्तरि वेतिभेदः ॥
(३८) शेते येन तत् शधुि । मद्यं वा । शीलं स्वभावः । शैवलम् । शेवालम् । बाहुलकात्-प्रत्ययवकारस्य पकारः । शेपालम् । जलनील्या नामान्येतानि । उदके लतारूपमुत्पन्नं सेवार इति प्रसिद्धम् ॥
(३६) म्रियते असौ मरूकः । मृगो वा । कति शब्दयतीति काणूकः काको वा ॥
For Private And Personal Use Only