________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
उणादिकोषः ॥
ईषेः किद् ध्रस्वश्च ॥ २१ ॥ इषीका । २१ ॥ ऋजेश्च ॥ २२ ॥ ऋजीकः । २२॥ सर्तेर्नुम् च ॥ २३ ॥ मृणीका । २३ ॥ मृडः कीकच् कङ्कणौ ॥ २४ ॥ मृडीकः । मृडकपः ॥२४॥ अलीकादयश्च ॥२५॥ अलीकम् ।व्यलीकम्।वलीकम्॥२५॥ कृतभ्यामीषन् ॥ २६ ॥ करीषः । तरीषः॥ २६ ॥ ( २१.) कित्वात् गुणाभावः । ईषते गच्छ तीति इषोका । मुजादिशलाका वा !!
( २२ ) कित् । अर्जति गच्छतोति ऋजीकः । उपहतो वा । कित्वाद् गुनिषेधः ॥
( २३ ) सरति प्राप्नोतीति सृणीका । लाला वा । ष्ठीवनभेदः । लार इति प्रसिद्धम् ॥
(२४) मृडति सुखयोति डोकः । सुखदाता ।मृडङ्कणः । बालो वा। बहुलवचनात् । कायति शब्दयतीति कङ्कणः । करभूषणं वा ॥
(२५) कोकन् प्रत्ययान्ता अमी निपात्यन्ते । अलति वारयतीत्यलोकम् । मिथ्या वा। विपूर्वाद् व्यलोकप्रियं खेदो वा । वलते संवृणोत्यनेन तत् वलोकम् । गृहच्छादनसामग्री वा । अन्येपि, वलते संवतो भवतीति वल्मीकम् । छिद्रमृषिभेदो वा। तस्यापत्यं वाल्मीकिः। मुडागमः। वहतोति वाहीकः । गौरश्खो वा । धातोर्वद्धिः । सुष्ठु प्रेतीति सुप्रतीकः अग्निर्वा । धातोस्तुट च ॥
( २६ ) कीर्यते विक्षिप्यते स करीषः । शुष्कगोमयं वा । तरतियेन स तरीषः । नौका वा ॥
For Private And Personal Use Only