________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पा० ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
६३
कषिदूषिभ्यामीकन् ॥ १६ ॥ कषीका | दूषीका ॥ १६ ॥ निषिभ्यां किञ्च ॥ १७ ॥ अनीकम् । हृषीकम् ॥ १७ ॥ चङ्कराः कङ्का च ॥ १८ ॥ कङ्क्षीका ॥ १८ ॥ शृपृवृजां हे रुक् चाभ्यासस्य ॥ १९ ॥ शर्शकः ॥ पर्परीकः । वर्वरीकः ॥ १९ ॥
फर्फरीकादयश्च ॥ २० ॥ फर्फरीकम् | दर्दरीकम् । तिन्तिडीकः । चञ्चरीकः । मर्मरीकः । कर्करीकम् । पुण्डरीकः ॥ २० ॥
(१६) कर्षाति हिनस्तीति कषीका । पक्षिजातिवी । दूषयतीति दूषका नेत्रमलं वा ॥
( १२ ) अनिति जीवयतीत्यनीकम् । विरुद्धं सैन्यं वा । हृष्यति तुष्टो भवतोति येन तत् हृषीकम् । ज्ञानेन्द्रियं वा ॥
(१८) यङ्लुगन्तात्कणधातोरीकन कंकणादेशश्च । पुनः पुनः कर्णाति शब्दयतीति कङ्कणीका । वाद्यसाधनविशेषो वा । घरियार इति प्रसिद्धः । किङ्किणीका क्षुद्रघण्टिका | बहुलवचनात् सिद्धम् ॥
(१६) शृणाति हिनस्तीति शर्थरीको हिंसकः । पिपर्ति पालयतीति पर्परीकः सूय्य वा । वृणोति स्वीकरोतीति वर्वरीकः । कुटिलकेशो जनो वा ॥
For Private And Personal Use Only
( २० ) स्फुरति चेतनो भवतीति फर्फरीकम् | पत्त्रादिसहितः शाखाग्रन्थिवी । ईकन्प्रत्यये धातोः फफ़रादेशः । दृणातीति दर्दरीकम् 1 वादिचं वा । करोति कार्य्याणि येन तत् कर्करीकम् । शरीरं वा । कर्करोका गलन्तिका । कलशी इति प्रसिद्धा । अत्रोभयत्र धातोर्द्वित्वमभ्यासस्य रुक् च । तिम्यत्याट्री करोतीति तिन्तिडीकः । वृक्षजातिर्वा | मकारस्य डकारोऽभ्यासस्य नुट् च । चरति गच्छति भक्षयति वा स चञ्चरीकः । भ्रमरो वा । अभ्यासस्य नुम् । म्रियतेऽसौ मर्मरीकः । हीनजनो वा । पुति शुभकर्माचरतीति पुण्डरीकम् । श्वेताम्भोजं सितपचं भेषजं व्याघ्रोऽमि ॥