________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ३ ॥
98
शरम्योश्च ॥ १०१ ॥ शरण्यम्। रमण्यम् ॥ १०१ ॥ अर्तेर्निच्च ॥ १०२ ॥ अरण्यम् ॥ १०२ ॥ पर्जन्यः ॥ १०३॥ वदेरायः ॥ १०४ ॥ वदान्यः ॥ १० ॥
अमिनक्षियजिबधिपतिभ्योऽत्रन् ॥१०५॥ अमत्रम् । नक्षत्रम् । यजत्रम् । बधत्रम् । पतत्रम् ॥ १०५॥
गडेरादेश्च कः ॥ १०६ ॥ गडत्रम् । कलत्रम् ॥ १०६ ॥ वृनश्चित् ।। १०७ ।। वरत्रा ॥ १०७ ॥
( १०१. ) शणाति हिनस्तीति शरण्यम् । अज्ञानं वा । रमतेस्मिंस्तद्रमण्यम् । गृहं वा ॥
( १०२ ) ऋच्छन्ति गृहाद् गच्छन्ति यत्र तदरण्यम् । वनं वा । महदरण्यमरण्यानी ॥
(१.०३) पति सिञ्चतीति पर्जन्यः । मेघः समर्थो वा । निपातनातपकारस्य जकारः ॥
( १०४ ) उद्यते वदतोति वा स वदान्यः । वाग्मी त्यागी वा ॥
(१६५) अमति प्राप्नोति यत्र तत् अमचम् पाचं वा । नक्षति गच्छतोति नक्षत्रम् । तारका वा । इज्यते यति वा तद् यजत्रम् । अग्निहोत्र होता वा । बीति हनः स्थाने बधादेशो निपात्यते । हन्ति येन तद् बधतम् । आयुधं वा । पतति गच्छति येन तत्पतत्रम् वाहनं लोमानि वा ॥
(१०६ ) गडति सिञ्चतीति गडचम् । बाहुलकाडस्य लः । कलचम् । कटिभागो भार्या वा ॥
( १०० ) वृणोत्युदकादिकं यया या वा सा वरचा चर्मरज्जुर्वा ॥
For Private And Personal Use Only