________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
८०
उगादिकोषः ॥
सुविदेः कन् ॥ १०८ ॥ सुविदत्रम् ॥ १०८ ॥
कृतेर्नुम् च ॥ १०९ ॥ कृन्तन्त्रम् ॥ १०९ ॥
भृमृदृशियजिपर्विपच्यमितमिनमिहयिभ्योऽतच् ॥ ११०॥ भरतः । मरतः । दर्शतः । यजतः । पर्वतः। पचतः । श्रमतः । तमतः । नमतः । हर्य्यतः ॥ ११० ॥
Acharya Shri Kailassagarsuri Gyanmandir
पृषिर जिभ्यां कित् ॥ १११ ॥ पृषतः । रजतम् ॥ १११ ॥ खलतिः ।। ११२ ॥
( १०८ ) सुष्ठु विद्यते तत् सुविदत्रम् कुटुम्बं वा ॥
(१०६ ) कृन्तति विनति येन तत्कृन्तत्रम् । लाङ्गलं वा ॥
( ११० ) भरति पुष्णातीति भरतः । राजभेदी नटो रामानुजा वा । म्रियतेऽसौ मरतः मृत्युर्वा । पश्यन्ति येन स दर्शतः । चन्द्रः सूर्ये वा । यजतीति यजतः । ऋत्विग्वा । पर्वत पूर्णेौभवतीति पर्वतः । पर्वविद्यतेऽमिति मत्वर्थी यस्तकारप्रत्ययो वा । गिरिर्वा । पचति येन स पचतः । अग्निवी | अमति गच्छतीति मतः । रेणुवी । ताम्यति काङ्क्षतीति ततः । तृष्णापरो वा । नमतोति नमतः नम्रो वा । हर्यति गच्छतीति हर्यतः । अश्वो वा । बाहुलकात् - मलते स्वरूपं धरतीति मालती । उपधादीर्घेी गौरादित्वान् ङीष् ॥
1
( १११ ) पर्षति सिञ्चतीति पृषतः । विन्दुर्मृगो वा । रजति प्रियं भवतीति रजतम् । रूप्यं शुकं वा ॥
(११२) स्खलति सञ्चन्नतीति खलतिः । निष्केशशिराः पुरुषो वा । धातोः सलोपः प्रत्ययान्तस्येत्वं निपातः ॥
For Private And Personal Use Only