________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ३॥
हियो रश्च लो वा ॥ १८॥ हीका । हलीका ॥ १८॥
शकेरुनोन्तोन्युनयः । १९॥शकुनः । शकुन्तः। शकुन्तिः। शकुनिः ॥ १९॥
भुवो झिच् ॥ ५० ॥ भवन्तिः॥ ५० ॥ कन्युच् क्षिपेश्च ॥ ५१॥ क्षिपण्यः । भुवन्युः ॥ ५१ ॥ अनुङ् नदेश्च ॥ ५२ ॥ नदनुः । क्षिपणुः ॥ ५२ ॥
कृवृदारिभ्य उनन् ॥ ५३॥ करुणा । वरुणः । दारुगम् ॥ ५३॥
(४८) जिहेति लज्जां करोतीति छोका होका लज्जा वा ॥
( ४६ ) उन, उन्त, उन्ति, उनि, इत्येते प्रत्यया भवन्ति । शक्नोतोति शकुनः । शकुन्तः । शकुन्तिः । शकुनिः । पक्षिनामानि वा ॥
( ५० ) भवन्ति पदार्था यस्मिन् स भवन्तिः । वर्तमानकालो वा। कामयतेऽसौ कुन्तिः । स्त्रियां कुन्ती । धातोः कुरादेशः प्रत्ययादिलोपश्च । अवतीति, अवन्तिः । राजा वा । वदतीति वदन्तिः । कोलाहलो वा । किंवदन्ती जनश्रुतिः । कुन्त्यादयो बाहुलकादेव भवन्ति ॥
( ५१.) चाद् भुवः । क्षिति प्रेरयतीति क्षिपण्युः । वसन्त ऋतुर्वा । भवतीति भुवन्युः । स्वामी सूर्यो वा ॥
(५२) चात क्षिपः । नदत्यव्यक्तं शब्दं करोतीति नदनुः मेघो वा । क्षिप्यतीति क्षिपणुः वायुर्वा ॥
( ५३ ) किरति विक्षिपति दुर्गुणमिति करुणः। वृक्षभेदो वा । करुणा कृपा वा । करुणा शीलमस्येति कारुणिकः । वृणोति वियते वाऽसौ वरुणः । उत्तमं जलं वृक्षभेदो वा । दारयति यत् येन वा तदारुणं भीषणं वा ॥
For Private And Personal Use Only