________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
रास्नासानास्थूणावीणाः ॥ १५ ॥ गादाभ्यामिष्णुच् ॥ १६ ॥ गेष्णुः । देष्णुः ॥ १६॥ कृत्यशूभ्यां नः ॥ १७॥ कृत्स्नम् । अक्षणम् ॥ १७ ॥ तिजेर्दीर्घश्च ॥ १८॥ तीक्षणम् ॥ १८॥ शिलषेरचोपधायाः ॥ १९ ॥ इलक्षणम् ॥ १९ ॥
यजिमनिशुन्धिदसिजनिभ्यो युच् ॥ २०॥ यज्यः । मन्यः। शुन्ध्युः । दस्युः । जन्युः ॥ २० ॥
भुजिमृभ्यां युक्त्युकौ ॥ २१॥ भुज्युः । मृत्युः ॥ २१ ॥ ( १५ ) रसति शब्दयतीति रास्ना । गन्धद्रव्यं वा । सस्ति स्वपिति यया सा सास्ना । गवादीनां कण्ठाऽधोभागश्चर्म वा । तिष्ठति छादनादिकमनया सा स्थणा गृहस्तम्भो वा । आकारस्य ऊ आदेशः । वेति व्याप्नोति शब्दोऽस्याः सा वीणा वाद्यावशेषो वा । निपातनाणणत्वम् ॥
(१६ ) गायति शब्दं करोतीति गेष्णुः । गाथको वा । ददातीति देष्णुः । दानशीलो वा ॥
(१७ ) कृन्तति स्वल्पमिति कृत्स्नम्। संपूर्ण वा । अश्नुते व्याप्नोतीत्यच्याम् । अखण्डं वा ॥
( १८ ) तितिक्षते तत् तीक्षणम् । तीवम् । वालिङ्गोऽयं शब्दः । तीक्षणा बुद्धिः । तीक्षणः पुरुषः । तीक्षणं घृतम् ॥
(१६) कस्नः । श्लिष्यतीति श्लक्षणम् । सुकुमारं चिलिङ्गेषु वा ।
(२०) यजतीति यज्युः । अध्वयुा । मन्यतेऽसौ मन्यः । शोकः क्रोधो वा । शुन्धतीति शुन्ध्युः।अग्निवी । दस्यति नाशयति परषदार्थानिति दस्युः। तस्करो वा । जायते प्रादुर्भवतीति जन्युः । शरीरी वा । बाहुलकादनादेशाभावः।
( २५ ) यो भुक्ति यत्र वा सभुज्यः पात्रं वा। म्रियत इति मृत्युः । शरीरवियोगो वा स्त्रीलिङ्गः पुंल्लिंगश्च ॥
For Private And Personal Use Only