SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ॥ सियेष्टेयं च ॥ ९ ॥ स्योनः ॥ ९॥ कृवज़सिद्र पन्यनिस्वपिभ्यो नित् ॥१०॥कर्णः। धर्णः। जर्णः । सेना । द्रोणः । पन्नः । अन्नम् स्वप्नः ॥ १० ॥ धेट इच्च ॥ ११ ॥धेनः। धेना ॥ ११ ॥ तृषिशुषिरसिभ्यः कित् ॥१२॥ तृष्णाशुष्णः।रस्नम् ॥१२॥ सुनो दीर्घश्च ॥ १३ सूना ॥ १३ ॥ रमेस्त च ॥ १४ ॥ रत्नम् ॥ १४ ॥ (६) सीति तन्तून सन्तनातीति स्यूनः । आदित्यो वा । टिभागस्य यू इत्यादेशः । बाहुलकात-केवलोऽपि न प्रत्ययस्तेन ऊठादेशे कृते स्यानः सुखी स्योनं सुखमित्यपि सिद्धं भवति । (१०) नो नित् । किरति विक्षिपोति कर्णः। श्रोत्रं क्षत्रियविशेषा वा। वृणोति वियतेवा सवर्णः ब्राह्मणादिःशुलादिःस्तुतियशोरूपमक्षरंस्वीकारश्च। जोर्यतीति जर्णः । चन्द्रमा वृद्धो वा।सिनोति बधनाति शनिति सेना। इनेन सह वर्तत इति पूर्वमुक्तम् । द्रवति गच्छतीति द्रोणः। कृष्णकाको मानविशेषाऽर्जुनगुरुवाद्रोणी जलसेचनी वा । पनाति स्तोतीति पन्नः। सो वा। अनिति जीवयतीत्यन्नमोदनादिकं वा । यः स्वपिति यत् सुप्यते वा स स्वनः । निद्रा वा॥ (११) धन्ति पिबन्ति यस्मात्स धेनः समुद्रो धेना नदी वा । आतत्वनिवृत्यर्थ इकारादेशः ॥ (१२) तृष्यति काक्षति पिपासति वा यया सा तृष्णा । लिप्सा पिपासा वा । शुष्यति रसादिकमिति शुष्णः । सूर्योऽग्निर्वा । रसति शब्दयतीति रस्नम् । द्रव्यं वा ॥ ( १३ ) यः सुनोति यत्र वेति सूना । जन्तुबधस्थानं वा ॥ ( १४ ) ण्यन्ताद्रमेन प्रत्ययो मस्य तश्चादेशः। रमयति हर्षयतीति रत्नम् । जाती जाती यदुतकृष्टं तद्धि रत्नं प्रचक्षते । अश्वरत्नम् । गजरत्नम् । मणिरत्नम् । स्त्रीरत्नम् । इत्यादि ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy