________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० २ ॥
वसौ रुचेः सज्ञायाम् ॥ १११॥ वसुरोचिः ॥ १११॥ भुवः कित् ॥ ११२ ॥ भुविः ॥ ११२॥ सहो धश्च ॥ ११३ ॥ सधिः ॥ ११३॥ पिबतेस्थुक् ॥ ११४ ॥ पाथिः ॥ ११४ ॥ जनेरुसिः ॥ ११५॥ जनुः ॥ ११५॥ भनेर्धश्छन्दसि ॥ ११६ ॥ मधुः ॥ ११६ ॥
अर्तिपवपियजितनिधनितपिभ्यो नित् ॥ ११७ ॥ अरुः । परुः । वपुः । यजुः । तनुः । धनुः । तपुः ॥ ११७ ॥
एतेर्णिञ्च ॥ ११८॥ आयुः ॥ ११८॥
( १११ ) वसूनग्न्यादीन रोचतेऽसौ वसुरोचिः । यज्ञो वा । बाहुलकात्-केवलादपि रोचिः ज्वाला वा ॥
( ११२ ) इसिन कित । यो भवति यस्मिन् वा स भुविः समुद्रो वा॥ ( ११३ ) इसिन् । सहते भारमिति सधिः । अनड्वान् वा ॥ ( ११४ ) पिबति यो येन वा तत् पाथिः चक्षुः समुद्रो वा ॥
( ११५ ) जायते यतज्जनः । जनुषी । जननं वा । बाहुलकान्मनधातोरपि मन्यते जानातीति मनुः । मनुषो ॥
( १.१६ ) मन्यते बुध्यते यद्येन वा तत् मधु पवित्रद्रव्यं वा ॥
(११० ) ऋच्छति प्राप्नोतीत्यरुः । आदित्यो वणो वा । पिर्ति येन तत् परुः । ग्रन्थिी । वपति बीजादिकमस्मात्तद्पुः शरीरं वा । यति येन तद्यजुः । वेदविशेषो वा । तनोति कार्याण्यनेन तत्तनुः शरीरं वा । दिन्ति धनादिकं प्राप्नोति येन तदनुः वाणक्षेपणं वा । तपति दुःखयतीति तपुः सूर्योऽग्निः शत्रुवी ॥ |
(११८ ) ईयते प्राप्यते यतदायुः । जीवनं वा । जटापूर्वीज्जटायुः । पक्षिराजः ॥
For Private And Personal Use Only