________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पा० १ ॥
つりゆ
Acharya Shri Kailassagarsuri Gyanmandir
ग्रसेरा च ॥ १४३ ॥ ग्रामः ॥ १४३ ॥ अविसिविसिशुषिभ्यः कित् ॥ १४४ ॥ ऊमम् । स्यूमः । सिमः । शुष्मम् ॥ १४४ ॥
इषियुधीन्धिदसिश्याधूसूभ्यो मक् ॥ १४५ ॥ इष्मः । युध्मः । इध्मः । दमः । श्यामः । धूमः । सूमः ॥ १४५ ॥ युजिरुचितिजां कुश्च ॥ १४६ ॥ युग्मम् | रुक्मम् । तिग्मम् ॥ १४६ ॥
३५
( १४३ ) मन् । ग्रसतेऽति यो वा ग्रस्यते स ग्रामः | शालासमुदायः प्राणिनिवासो वा । सङ्ग्रामो युद्धं वा । शालीनां ग्रामः समूहः शालिग्रामः । एवं शब्दग्रामः । ग्रामो गानविद्यायां स्वरभेदश्च ॥
(१४४) मन्- कित् । अवति रचणादिकं भवति यत्र तत् ऊमम् । नगरं वापि कृते बाहुलकाद्धस्वे च । उमा । विशिष्टा स्त्री वा । सीव्यति तन्तून संतनोतीति स्यमः । रश्मिर्वा । मिनीति बध्नातीति सिमः । सर्वनाममज्ञः सर्वपय्यायः । शुष्यति निस्सारं करोतीति शुष्मम् । श्रमिव युवी ॥
( १४५ ) य इच्छति य इष्यते स इष्मः । कामो वसन्त ऋतु । युध्यते यो येन वा स युध्मः । वाणो वा य इन्धे दीप्यते वा येनेन्धे स इध्मः । समिद्भुः । दस्यत्युपक्षयति दुःखयति वा स दस्मः । यजमानो वा । श्यायति गच्छति प्राप्नोति वा स श्यामः । हरितः कृष्णो वा । अप्रसूता स्त्री श्यामा लतौषधी वा । इत्यादि । धूनोति कम्पयतीति धूमः । अग्निसम्भवो वा । सूते जनयति प्राणिगर्भ विमुञ्चतीति सूक्ष्मोन्तरिक्षं वा । बाहुलकात - गच्छति कम्पते वा तदीर्मम् । वृणं वा । क्षौति शब्दयतीति सा क्षुमा । अतसी वा । जजन्ति जायते तज्जन्म | उत्पत्तिव ॥ ( १४६ ) मक् । युज्यते तद्युग्मम् | द्वयेोरेककर्मणि सम्बन्धः । रोचते प्रदीप्तवर्णै। भवति स रुक्मा वर्णभेदो वा । तद्वर्णयोगादुक्मं सुवर्णम् । रुकमा वस्यास्तीति रुकमिणी स्त्री । तेजते छिनतीति तिमम् । तीक्ष्णम् । विशेयलिङ्गोऽयं शब्दः तिग्मा धोः । तिग्मस्तोवो वा ॥
For Private And Personal Use Only