________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
उणादिकोषः ॥
युष्यसिभ्यां मदिक् ॥ १३९ ॥ युष्मद् । अस्मद् ॥ १३९॥ अर्तिस्तुसहसक्षिक्षुभायावापदियक्षिनीभ्यो मन् ॥ १४०॥
अमः । स्तोमः। सोमः। होमः । सर्मः। धर्मः । क्षेमम् । क्षोमम् । भामः । यामः । वामः। पद्मम् । यक्ष्मः। नेमः ॥१४॥
जहातेः सन्वदाकारलोपश्च ॥ १४१ ॥ जिह्मः । १४१ ॥ अवतेष्टिलोपश्च ॥ १४२ ॥ ओम् ॥ १४२॥
( १३६ ) योषति सेवतेऽसौ युष्मद् । युष सौत्रो धातुः । अस्यति प्रक्षिपत्यन्यमित्यस्मद् । सर्वनामवाचकाविमौ ॥
(१४० ) ऋच्छति प्राप्नोति सोऽर्मः । चक्षरोगो वा । स्तौति येन स स्तोमः । सङ्घातो वा। सवत्यैश्वर्यहेतुर्भवतीति सोमः । कर्पूरश्चन्द्रमा वा। हूयते दीयतेऽसौ होमः । यज्ञो वा। नियते गम्यते स समी गमनम् । धियते सुखप्राप्तये सेव्यते स धर्मः । पक्षपातरहितो न्यायः सत्याचारी वा । क्षयत्यज्ञानं नाशयतीति क्षेमम् । कुशलं वा । क्षौति शब्दयतीति क्षोमम् । वस्त्रभेदो वा । दुकूलमतसीकुसुमं च । भाति प्रकाशतेऽसौ भामः । क्रोधः सर्या दीप्तिी । यायते प्राप्यते स यामः । प्रहरी वा । वाति गच्छति ग्रन्थं वा गृहणातीति वामः । शोभनः दुष्टः पार्श्वभेदी वा । पद्यते प्राप्नोतीति पद्म कमलं निधिः शङ्खो वा । यक्षयते पूजयतीति यक्षमः । राजरोगो वा । नयतीति नेम: । प्रकारमूलं वा । अर्दुवाची तु सर्वनामसञ्जकः ॥
(१.४१. ) मनित्यनुवर्तते । जहाति त्यजतीति जिह्मः । कुटिलो मन्दो वा ॥
(१४२ ) मन् प्रत्ययस्य टिलोपो धातोस्पधावकारयोरूठ् । अवति रक्षादिकं करोतोति ओम् । प्रणव प्रारम्भोऽनुमतिर्वा । चादिषु पाठादस्या. ऽव्ययत्वम् ॥
For Private And Personal Use Only