________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा० १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
BB
दृणातेः घुग्घुस्वश्च ॥ १३१ ॥ दृषत् ॥ १३१ ॥ त्यजितनिय जिभ्यो डित् ॥ १३२ ॥ स्यद् । तद् । यद् ॥ १३२ ॥
एतेस्तुट् च ॥ १३३ ॥ एतद् ॥ १३३ ॥ सर्तेरटिः ॥ १३४ ॥ सरद् ॥ १३४ ॥ लर्नलोपश्च ॥ १३५ ॥ लघट् ॥ १३५ ॥ पारयतेरजिः ॥ १३६ ॥ पारक् ॥ १३६ ॥ प्रथेः किंत्सम्प्रसारणं च ॥ १३७ ॥ पृथक् ॥ १३७ ॥ भियः पुग्घ्रस्वश्च ॥ १३८ ॥ भिषक् ॥ १३८ ॥
( १३१ ) दीर्यतेऽसौ दृषत् । पाषाणो वा । अदिप्रत्यये धातोः क् ह्रस्वागमश्च भवति ।
(१३२) त्यजति क्लेशादिहीनो भवतीति त्यद् । तनुते विस्तृतो भवतीति तद् । यजति सर्वैः पदार्थः सङ्गतो भवतीति यत् । ब्रह्मणो नामानि त्रयाणि । त्यदादीनां सर्वनामसञ्ज्ञा भवति तेन सामान्यवाचकास्त्यदादयः ॥
(१३३) इग्धातोरदिः प्रत्ययस्तस्य तुडागमश्च । एति प्राप्नोतीत्येतत । अस्यापि सर्वनामसञ्ज्ञा ॥
( १३४ ) सरति गच्छतीति सरट् । वायुर्मेघो वा ! सृधातोरटिः प्रत्ययः ॥ ( १३५ ) लङ्घति शोषयतीति लघट् । वायुवी । धातोर्नलोपः ॥ ( १३६) पारयति कर्म समापयतीति पारक सुवर्णं वा । चौरादिकात्पारिधातोरजिः प्रत्ययः ॥
( १३० ) प्रथयति सङ्घाताद्विस्तृतो भवतीति पृथक् नानात्वं वा । स्वरादिपाठादव्ययत्वम् ॥
For Private And Personal Use Only
(१३८) बिभेत्यसौ भिषक् । वैद्यो वा । सुमङ्गलभेषजाच्चेति निपातना - द् गुणे कृते भेषजम् । भैषजमेव भैषज्यम् ॥