________________
Shri Mahavir Jain Aradhana Kendra
३२
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
शृणातेर्हस्वश्च ।। १२६ ।। शृङ्गः ।। १२६ ।। गए शकुनौ ॥ १२७ ॥ शार्ङ्गः ॥ १२७ ॥ मुदिग्रोग्गौ ॥ १२८ ॥ मुद्गः । गर्गः ॥
१२८ ॥
अण्डन् कृसृभृवृञः ॥ १२९ ॥ करण्डः । सरण्डः । भरण्डः
1
e c
वरण्डः ॥ १२९ ॥ शृदृभसोऽदिः ॥ १३० ॥ शरत् | दरत् । भसत् ॥ १३० ॥
:
( १२६ ) ति नुट् चेत्यनुवर्तते शृणाति हिनस्ति येन तत् शृङ्गम् विषाणं पर्वतानं मत्स्यभेद औषधिभेदः सुवर्णभेदा वा ।
( १२० ) गणप्रत्ययस्य गित्वाद्वातोवृद्धिः पूर्वत्रनुट् च । शृणातीति शार्ङ्गः पक्षी । बाहुलकात्प्रत्ययस्यादा वकारागमेन शारङ्ग- इत्यपि सिद्धं भवति ॥ ( १२८ ) मुदधातोर्गक । मोदतेऽसौ मुद्गः अन्त्रभेदो वा । मुद्गान् लाति गृणातीति मुद्गलो मुनिः । यस्य गोत्रापत्यं मौद्गल्य इति प्रसिद्धम् । गृणात्युपदिशतीति गर्गः । ऋषिविशेषो वा । गृधातोर्गः प्रत्ययः ॥
( १२६) कृप्रादिभ्योऽण्डन् प्रत्ययः । क्रियतेऽसौ करण्डः पुष्पभाण्डभेदः करण्डो वंशविकारपात्रम् । पिटारी इति प्रसिद्धा । सरति गच्छतीति सरण्डः पक्षी वा । विभर्त्ति पुष्यतीति भरण्डः स्वामी । वणोति स्वीकरोतीति वरण्डः । मुखरोगः सन्दोहोवा । बाहुलकात - तरति येन स तरङ्गः । जलतरणसाधनं वा । वनति संभजति धर्ममिति वतण्डः । ऋषिविशेषो वा । धातोस्तकारान्तादेशः । छमति भक्षयतीति छमण्डः । मातापितृशून्यो वा । शेतेऽसैौ शयण्डः।विषया वा इत्यादयः शब्दा बहुलवचनादेव सिद्धा भवन्ति । (१३) शुभसधातुभ्यो ऽदिः प्रत्ययः शृणाति हिनस्त्यस्मिन्निति शरत् । कालविशेष ऋतुर्वा । दीर्यतेऽदो दरत हृदयं कुलं वा । विभस्ति भर्त्सयति प्रकाशते वा । सभसत् जघनं वा । बाहुलकात् - पर्षति स्निह्यति प्रीतिकरं प्रसन्नं भवति चित्तमस्यां मा पर्षत् । सभा समाजो वा ॥
For Private And Personal Use Only