________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० १॥
विडादिभ्यः कित्।।१२१॥विडङ्गः । मृदङ्गः । कुरङ्गः॥१२१॥ सवृत्रोवृद्धिश्च ॥ १२२ ॥ सारङ्गः । वारङ्गः ॥ १२२॥ गन् गम्यद्योः ॥ १२३ ॥ गङ्गा । अद्गः ॥ १२३ ॥ छापूरखडिभ्यः कित् ॥१२४॥ छागः । पूगः । खड्गः ॥१२॥ भृत्रः किन्नुट् च ॥ १२५ ॥ भृङ्गः ॥ १२५ ॥
( १२१ ) विडत्याक्रोशतीति विडङ्गः । ओषधिविशेषो वा। मृनाति यं स मृदङ्गः । वाद्यभेदो वा । कति विक्षिपीति कुरङ्गः । हरिणो वा । कुरङ्गी हरिणी स्त्रियां गौरादित्वान ङीष् । बाहुलकाद्-ऋकारस्योत्त्वं रपरत्वं च ॥
(१२२ ) सवअभ्यामगच धातोर्वद्धिश्च । सरति सर्वत्र गच्छतोति सारङ्गः । पत्नी हरिणो भगो वा । यो वृणोति गृह्णाति स वारङ्गः खड्गादिमुष्टिवी । बाहुलकात्-नृणाति नयति स नारङ्गः । रसः पिप्यलोवृक्षफलभेदो वा ॥
( १२३ ) गच्छतीति गङ्गा । नदीभेदो वा । अतिवाऽद्यते भक्ष्यतेऽसावद्गः । पुरोडाशो वा । बाहुलकात्-अमगत्यादिष्वित्यस्मादपि गन् । गच्छति प्राप्नोति कर्माणि विषणन वा येन तदङ्गम् । गात्रमुपायः प्रतीकमप्रधानं देशविशेषो वा ॥
(१२४ ) छादिभ्यो गन् किद् भवति । छिनतोति छागः । वर्करो वा। पूयते मुखं येन स पूगः । क्रमुकः फलविशेषः । सुपारीति प्रसिद्धः। समूहो वा। खडति भिनति येन स खड्गः । शस्त्रं गण्डकः-गड़ा इति प्रसिद्धः । बाहुलकात-सेटत्यनाद्रियते स षिड्गः । चञ्चलमना हारमध्यस्थो मणिवी । बहुलवचनादेव सत्वनिषेधः ॥
(१२५ ) भृधातोर्गन प्रत्ययः कित् तस्य च नुट् बिभर्ति धरति पुष्यति वा स भृङ्गः । भ्रमरो वा ।
For Private And Personal Use Only