________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
उणादिकोषः ॥
पतिचण्डिभ्यामाला॥११७॥पातालम् । चण्डालः॥११७॥ तमिविशिविडिमृणिकुलिकपिपलिपश्चिभ्यः कालन् ॥ ११८॥ तमालः । विशालः। विडालः। मृणालम् । कुलालः । कपालम् पलालम् । पञ्चलाः ॥ ११८॥ पतेरङ्गच पक्षिणि ॥ ११९ ॥ पतङ्गः ॥ ११९ ॥ तरत्यादिभ्यश्च ॥ १२० ॥ तरङ्गः । लवङ्गः ॥ १२० ॥
(११० ) पतन्ति गन्ति यत्र स पातालो देशः पादस्य तले वर्तत. इति वा । पातालः पृषोदरादित्वात सिद्धः । चण्डति कुप्यतीति चाण्डालः मातङ्गो वा । चण्डं कुपितमलं भूषणमस्येति समासेऽपि चण्डालः सिद्धः ॥
(११८ ) ताम्यन्ति काञ्जन्ति यं स तमालः वृक्षभेदो वा । विशति सर्वत्रेति विशाल: । विशाला मानिनी भायी विशालः सुन्दरः पुमान् । विशालोजयिनी प्रोक्ता विशालं च बृहद् गृहम् । विडत्याक्रोशतीति विडालः । मार्जारे। वा । स्त्री विहाली। मृति हिनस्तोति मृणालः मृणालं पद्ममूलं वा । कोलति सङ्घातयतीति कुलालः । कुम्भकारो वा । कम्पते येन तत्कपालम् । नृशिरो घटखण्डो वा । पल्यते प्राप्यतेऽसौ पलालः । निष्फलानि ब्रोहितृणानि वा । प्यार इति प्रसिदुम् । पञ्चति व्यक्त करीतोति पञ्चालः । देशविशेषो वा । बहुलवचनात-शोधातोरपि कालन् । श्यन्ति सूक्ष्माणि कार्याणि कुर्वन्त्यत्र सा शाला गृहम् ॥
( ११६ ) पक्षिण्यभिधेये पतधातोरङ्गच प्रत्ययो भवति पतति गच्छतीति पतङ्गः पक्षी पक्षिणीत्युच्यमानेऽपि बाहुलकात पतङ्गः सूर्योऽग्निरश्वः शलभः शालिभेदो वा । इत्यादीनामपि नामानि भवन्ति ।
( १२० ) तरति प्लवत्यनेन स तरङ्गः । जलार्मिर्वस्त्र भङ्गा वा । लुनात्यनेन स लवङ्गः । ओषधिर्वा । तरत्याद्याकृतिगणः ॥
For Private And Personal Use Only