________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० १॥
अमन्ताड्डः॥११४ ॥ दण्डः। रण्डा । खण्डः । मण्डः ।। बण्डः । अण्डः । षण्डः। गण्डः । चण्डः। पण्डः । पण्डा ॥ ११ ॥ क्वादिभ्यः कित्॥११५॥कुण्डम् ।काण्डम् ।गुडः। घुण्डः॥११५॥
स्थाचतिमृजेरालज्वालबालीयचः ॥ ११६ ॥ स्थालम् । चात्वालः । मार्जालीयः ॥ ११६ ॥
( १.१४ ) अमिति प्रत्याहारग्रहणाम् । ञ, म, ङ, ण, न इत्येते वर्ण। अन्तेऽस्य तस्माड्डः प्रत्ययो भवति बहुलवचनादित्संज्ञानिषेधः । दाम्यन्त्युपशाम्यनत्यनेन स दण्डः । यष्टिभेदो वा । रमते सौ रण्डा विधवा नारी वा। खण्डतेऽवदीर्यतेऽसौ खण्डः । विभागा मिष्टभेदो वा । खाण्ड इति प्रसिद्धः भिन्नः पदार्थो वा । मन्यते जानातोति मण्डः । मण्डा धात्री समाख्याता मण्डं पक्कौदनोदकम् । बनति शब्दयति सम्झजति वा । स बण्डः । छिन्नहस्तको वा । अन्ति संप्रयोगं प्राप्न वन्ति येन सोऽण्डः प्राण्यङ्गावयको वा । सनोति ददातोति षण्डः । नपुंसको बनं गोपः सङ्घातो वा। गच्छतीति गण्डः । कपोलव्याधिविशेषो वा । चति ददातोति चण्डः हिंसकस्तोवो वा । कोपना स्त्री चण्डी । चडिकोप इत्यस्य घन्तोपि चण्डः क्रोधी । पणायते व्यवहरति स्तौति वा । स पण्डः नपुंसकः पण्डा बुद्धिी । फणति गच्छत्यति फण्डः । पन्था फण्डमुदरं वा ॥
(१.१५) कवर्गादिधातुभ्यो डः किद् भवति । कुति शब्दयत्युपकरोति वा स कुण्डः । पत्यौ जीवति पुरुषान्तरादुत्पन्नः पुत्री जलाधारविशेषो वा । कुण्डा कुण्डिका वा। गवतेऽव्यक्तशब्दं करातीति गुडः । गोल इक्षुपाको वा । घोणते भ्राम्यतीति घुण्डः । भ्रमरो वा । काम्यते जनस्तत्काण्डम् । ग्रन्थैकदेशः । परिमाणविशेषो वाणोऽवसरो वा ॥
(११६ ) तिष्ठन्त्यस्मिन तत्स्थालम् । पात्रभेदो वा । थाल इति प्रसिदुम् । स्थाली सूपादिपचनी । गौरादित्वान् ङीष् । चतधातोवालञ् । चतने याचतेऽसौ चात्वालः चात्वालं यज्ञकुण्डं दी वा । मृजेरालीयच । माष्टो ति मार्जालीयः । विडालो वा ॥
-
For Private And Personal Use Only