________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
लङ्गवृद्धिश्च ॥ १०८॥ लाङ्गलम् ॥ १०८ ॥
कुटिकशिकौतिभ्यो मुट् च ॥ १०९ ॥ कुट्मलम् । कश्मलम् । कोमलम् ॥ १०९॥
मृजेष्टिलोपश्च ॥ ११० ॥ मलम् ॥ ११०॥ चुपेरच्चोपधायाः॥ १११ ॥ चपलम् ॥ १११॥ शकिशम्योर्नित् ॥ ११२॥ शकलम् । शमलम् ॥ ११२॥ छो गुग्घ्रस्वश्च ॥ ११३ ॥ छगलः ॥ ११३॥
( १०८ ) लङ्गन्ति प्राप्नुवन्ति, अन्नादिकं येन तल्लाङ्गलम् । हलं वा । बहुलवचनात-कन्दत्या वयात सा कदली । वृक्षभेदः केला इति प्रसिद्धा वा । बाहुलकाद्धातोर्नलोपः ॥
(१०६ ) कुटादिभ्यो विहितस्य कलप्रत्ययस्य मुट् । कुटतीति कुटमलः । बाहुलकात-कुण्डति दहतीति कुण्मलः । किंचद्विकसितपुष्पनाम्नो वा । कष्टे गच्छति शास्ति वा स कश्मलःकश्मलं कल्मष पापं वा । कौतिशब्दयतीति कोमलः । कोमलं मृदु जलं वा । बाहुलकात्-पिङ्क्ते वर्णयतोति पिङ्गलः । वर्णभेदो वा ।
(११० ) यन् मृज्यते शोध्यते तन्मलम् । पुरीषं पापम्। कृपणः पुरुषो वा । मृजधातोष्टिलापः ॥
(१११ ) चोपति मन्दं मन्दं गच्छति स चपलः । क्षणिकं शीघ्र वा । चपला पिप्यली विद्युद्वा । धातोरुकारस्याकारादेशः ॥
(११२ ) शक्नोतीति शकलः खण्डो मत्स्यभेदो वा । शाम्यतीति शमलः । अशुद्ध वा ॥
(११३ ) छ्यति छिनीति छगलः छागो वर्करो वा । धातागुंगागमो हस्वश्च ॥
For Private And Personal Use Only