________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० १॥
कलस्तृपश्च ॥ १०४ ॥ तृपला ॥ १०४ ॥ शमेवश्च ॥ १०५ ॥ शवलः ॥ १०५॥ वृषादिभ्यश्चित् ॥ १०६ ॥ वृषलः ॥ १०६ ॥ कमेर्बुक ॥ १०७ ॥ कम्बलः ॥ १०७॥
( १.०४ ) तृपधातोः कलप्रत्ययः । तृप्यति यया सा तृपला लता वा । अत्र सूजे चकारग्रहणात् तृफधातोपि कलप्रत्ययस्तेन तृफला इत्यपि सिद्धम् । तृफला त्रिफला इत्योधिविशेषपर्यायौ । बाहुलकात-काम्यतेऽसौ कमलः । कमलं पद्म वा। उदकं ताम्रमौषधं च। मृगभेदः कमलः । कमला श्रीपतिप्रिया वा । मण्डति भूषयति प्रतिपादति वा स मण्डलः । मण्डलं चक्राकारं देशभेदो बिम्बं कदम्बः कुष्ठं यज्ञभेदः श्वा च । कुण्डति दहतीति कुण्डलम्। वलयं पाशं कर्णभूषणं वा । पति गच्छतोति पटलः । अक्षिरोगस्तिलकं वा । इत्यादि । छ्यति छिनति पराऽभिप्रायमिति छलम् ॥
( १०५ ) शपत्याक्रोति स शवलः वर्णभेदो वा ॥
( १०६ ) वृषादिधातुभ्यः कलप्रत्ययश्चिद्भवति । वर्षति सिञ्चतीति वृषलः शूद्रो वा । तस्य स्त्री वृषली। कोशति श्लिष्यति कोशति व्यवहर्त जानातीति वा कुशलो निपुणः कुशलं क्षेममिति वा । बाहुलकाद्गुणे कोशल इति देशभेदी वा । पलति गच्छति येन तत् पललम् । तिलचर्ण पङ्क मांसं वा। दीव्यत्यर्मिणो विजिगीषतीति देवलो धार्मिकः । सरति सर्वत्र गच्छतीति सरलः । अकुटिल उदारो वा । धावति गच्छति शुद्धो भवति वा स धवलः । श्वेतः शुद्धो वा । धावुधाताबर्बाहुलका दुस्वत्वम् । वृषादेराकृतिगणत्वात् केवलकबलतरलानलजम्मलपेशलमर्दलादयोऽपि शब्दा द्रष्टव्या मुस्थति खण्डयति मोषयति चोरयति वा स मुसलः । मुषलो वा । मुशलं मुसलमिति लोहाग्रभागि कुटनसाधनम् । मुषलश्चौरो वा ॥
( १०० ) काम्यतेऽभीपस्यते यः स कम्बलः । ऊर्णाविकार उदकं वा। कमधातोः कलप्रत्यये बुक ।।
For Private And Personal Use Only