________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
उणादिकोषः ॥
-
-
-
हसरुहियुषिभ्य इतिः ।। ९७ ॥ हरित् । सरित् । रोहित्। योषित् ।। ९७ ॥ . ताडेर्णिलक च ॥ ९८ ॥ तडित् ।। ९८ ॥ शमः ।। ९९ ।। शण्ढः ॥ ९९ ॥ कमेरठः ॥ १०० ॥ कमठः ॥ १० ॥ रमेवृद्धिश्च ।। १०१ रामठम् ।। १०१ ।। शमेः खः ॥ १०२ ॥ शवः ।। १०२ ॥ करोष्ठः ।। १०३ ॥ कण्ठः ।। १०३ ।।
(६७) आहरति गृह्णाति द्रव्यमिति हरित दिक् वर्णस्तृणमश्वविशेषो वा । सरति गच्छतीति सरित् नदी वा।रोहति प्रादुर्भवतीति रोहित लताविशिष्टा हरिणी वा । युष इति सोचो धातुः । अथवा जुष इत्यस्य वर्णविकारेण पाठः । जुष्यते सेव्यते प्रीणयति वा सा योषित स्त्री वा ॥
(८) तोंडयति पीडयतीति तडित् । विद्युद्वा । प्रत्ययक्षलणेन गिलोपेऽपि वृद्धिः स्यादिति लुग्विधीयते ॥
(EC ) शाम्यति शान्तो भवतीति शण्डः स्वन्तत्रो वृषभः । सांड इति प्रसिद्धः । नपुंसकं वा ।। ॥
(१०० ) कामयतेऽसी कमठः कच्छपो वा। कमठमिति भाण्डभेदो वा। बाहुलकात -जीर्यत्यवस्थाहीनो भवतीति जरठः पाण्डरको वा। शमठः । शान्तो वा।
(१०१) रमतेऽस्मिन्निति रामठं हिगुर्वा । अठ प्रत्यये रमधातोदिः ॥
( १०२ ) शाम्यतीति शङ्खः । निधिभेदः । जलजं ललाटास्थि । बहुलवचनात-खकारस्येत्संज्ञा न भवति ॥
( १०३ ) कति येन शब्दं करोतीति कण्ठः । गली ध्वनि ।
For Private And Personal Use Only