________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
--
-
-
-
-
-
-
कबेरोतच पश्च ॥ ६२ ॥ कपोतः ॥६२ ॥ भातेर्डवतुप् ॥ ६३ ॥ भवान् ॥ ६३॥ कठिचकिभ्यामोरन् ॥ ६४ ॥ कठोरः । चकोरः ॥ ६४॥ किशोरादयश्च ।। ६५ ।। किशोरः । सहोरः ॥ ६५॥
कपिगडिगण्डिकटिपटिभ्य ओलच् ॥६६॥ कपोलः ।गडोलः गण्डोलः । कटोलः । पटोलः ॥ ६६ ॥
(६२) श्रोतच प्रत्ययो बकारस्य पकारः । कबते विचित्रवर्णो भवतीति कपोतः । पक्षिभेदो वा ।
(६३ ) भाति दीप्तो भवति दीपति वा स भवान् । सर्वनामवाचकः सर्वनामसंज्ञकश्चाऽयं शब्दः ॥
(६४ ) कठति कृच्छ ण जीवति येन स कठोरः कठिनः पूर्णी वा । चकते तृप्यति स चकोरः पक्षिविशेषो वा ॥ ( ६५ ) किशोरादय ओरन् प्रत्ययान्ता निपात्यन्ते । किंशृणाति हिनस्तीति किशोरः । अश्वशावको वा ।किमो मलोपः शृधातोष्टिलोपश्च निपातनम् । सोढुशीलः सहोरः साधर्वा । गायति शब्दं करोतीति गौरः । अरुणे श्यते पोते निर्मले च वालिङ्गः । गौरः कुमारः । गौरी कन्या । गौरं कुलम् । गौरं कमलम् ॥ गौरः सर्षपः । इत्यादि। गैधातोराकारादेशे कृत पोरना सह वृध्दोकादेशः। आयादेशस्त्वात्वाप्राप्तौ भवति ।
(६६) कम्पते चलति स कपीलः । वदनैकदेशो वा । सूत्रेनिर्देशादेव नलोपः । गति सिंचति स गडीलः । गण्डति स गण्डोलः । वदनैकदेशो वा । गडोलगण्डोलौ गुडकपर्यायौ वा । कति वर्षत्यावृणोति वा स कटोलः कटुश्चालो वा । पति गच्छति स पटोलः। फलविशेषो वस्त्रविशेषो
। बाहुलकात-कण्डति मादयतीति कण्डोलः । चाण्डालो वा ॥
For Private And Personal Use Only