________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० १॥
१६
मिथिलादयश्च ॥ ५७ ॥ मिथिला ॥ ५७॥
पतिकठिकुठिगडिगुडिदंशिभ्य एरक् ॥५८॥ पतेरः । कठेरः। कुठेरः । गडेरः । गुडेरः । दशेरः ॥ ५८॥
कुम्बेर्नलोपश्च ।। ५९ ॥ कुबेरः ॥ ५९ ।। शदेस्तश्च ॥ ६० ॥ शतेरः ॥६॥
मूलेरादयः ॥ ६१ ॥ मूलेरः । गुधेरः। गुहेरः । मुहेरः॥६१॥ ( ५७ ) मिथिलादय इलच् प्रत्ययान्ता निपात्यन्ते । मथ्यते या सा मिथिला मथ्यन्ते शत्रवो यत्र सा मिथिला विदेहानां राज्ञां नगरी वा । अकारस्येत्वं निपात्यते। गच्छन्ति प्राप्नुवन्ति यां सा गतिला वेत्र लता वा। गमेस्तकारान्तादेशः । या तति कृच्छ ण जीवति सा तकिला । नलोपः । आपधिर्वा । चमति भक्षयतीति चण्डिला काचिन्नदी वा। धातोढुंगागमः । यः पति निरन्तरं गच्छति स पथिलः पथिको वा । इत्यादि ।
(५८) पतति गच्छतोति पतेरो गन्ता पक्षी वा । कठति कृच्छण जीवतीति कठेरः । कारागारिको वा कुठेरोषि कृच्छ जीवी पाशो वा । कटहर इतिप्रसिदुम् । गडति सिञ्चतीति गडेरा मेघो वा । गुडति रक्षति स गुडेरी रक्षकः । दशति दंष्टाभ्यामिति दशेरः । हिंसको जीवो वा। अनुनासिकलापः ॥
(५६) कुम्बत्यन्यानाऽऽच्छादयति कुबेरः । धनाध्यक्षो विद्वान वा ।इदि त्वादप्राप्तो नलोपः एक विधीयते ॥
(६०) शीयते शातर्यात दुःवाकरोतीति शतरः शची । धातोर्दकारस्य तकारादेशः ॥
(६) मलेरादय एरक् प्रत्ययान्ता निपात्यन्ते । यो मूलति सर्वोपरि तिष्ठति स मूलेरः । भूपतिर्वा । गुर्धात सर्वतो वेष्टयतीति गुधेरः । रक्षको वा । गूहते येन स गुहेरः । लोहघातनो वा । मुह्यति विक्षिप्तइव भवतीति मुहेरी मूर्खः । मुह्यत्यनेन वृषभादिरिति वा मुहेरः कणमदनादौ वृषभमुखबन्धनम् । मुहेर इत्येव भाषायां प्रसिद्धम् ॥
For Private And Personal Use Only