________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
-
सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्॥५४॥ सलिलम् । कलिलम्। अनिलः । महिलः।भडिलः। भण्डिलः। शण्डिलः। पिण्डिलः। तुण्डिलः कोकिलः।भविलः॥५४
कमेः पश्च ॥ ५५ ॥ कपिलः ॥ ५५ ॥ गुपादिभ्यः कित् ।। ५६ ॥ गुपिलः । तिजिलः । गुहिल म्॥
(५४ ) सल्यादिभ्य इलच् । सलति गच्छतोति सलिलम् । जलं वा । कलनि सङ्ख्याति तत् कलिलम् । मिश्रं दुःखेन साध्यं गहनामति वा । अनिति जीवति जीवति वा स अनिलः । वायुा । यो मयति यं महयन्ति येन वा मह्यते पूज्यते स महिलः पुमान् । महिलं स्थानम् । महिला स्त्री वा । बाहुलकादिलच् इकारस्यैकारे सति महेला स्त्री इत्यपि सिद्ध भवति । भड इति सौत्रो धातुः । भडति हिनस्तीति डिलः शूरो वा । भडति परिचरति स्वामिनमिति भडिलः सेवकः । इत्यादि । भण्डयति परिहसति येन म भण्डलः । कल्याणं वा । शण्डति रोगयुक्तो भवतीति शाण्डिलः। ऋषिविशेषो वा ।यस्य गोचापत्यं शाण्डिल्य इति प्रसिद्धम् । पिण्डति सङ्घातं करोति स पिण्डिलः गणका वा । तुण्डति तोड़ति पृथक् करोति स तुण्डिलः । उच्चनाभिर्जनो वा । कोकत आदतेऽसौ कोकिलः । पक्षिविशेषो वा । यो भवति स विलः । भवितुं योग्यो वा । बाहुलकात । कुटति कौटिल्यं करोति स कुटिलः करकमी वा ॥
(५५) कमेरिलच मस्य पः कामयतेऽसौ कपिलः । वर्णभेदो मुनिविशेष वा ॥ (५६) इलचः कित्वं गुणनिषेधार्थम् । गोपायर्यात रक्षति प्रजा इति गुपिलः । राजा वा । तेजते तोक्षणी करोति वा तिज्यते सह्यते सर्वैः स तिजिलः । चन्द्रमा वा । गूहते बृक्षराच्छादितो भवतोति गुहिलं वनं वा अन्योप पूजितमादत योग्यः पूजिला विद्वान् । शोषयति समिति शुषिलो वायुः । देवते प्रकाशयति धीमति देविलो धार्मिको वा।
For Private And Personal Use Only