________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पा० १
Acharya Shri Kailassagarsuri Gyanmandir
१३
खरुङ्कुपीयुनीलङ्गुलिगु ॥ ३६ ॥ मृगय्वादयश्च ॥ ३७ ॥ मृगयुः । देवयुः । मित्रयुः ॥ ३७ ॥
( ३६ ) खरु इत्येवमादयश्शब्दाः कुप्रत्ययान्ता निपात्यन्ते । खनधातोः कुर्नम्य रः खनति शरीरमिति खरुः कामः । दन्तः संहर्ता दर्पेऽश्व वा । श्वेतार्थे तु वाच्यवत् यथा खरुरियं ब्राह्मणी । खरु कुलम् खरुः पुमान् । य दृष्ट्वा शङ्कते सन्दिग्धो भवतीति तत् शङ्कु विषम् । कीलं शर संख्या वृक्षभेदी जलभेदः पापं स्थाणुर्वा । पिवति पाति वा स पीयुः कालः काका वा । कुप्रत्यये धातोरोकारादेशो युगागमश्च । नितरां लङ्गति गच्छतीति नीलङ्गुः । क्रिमिजातिभ्रमरः पुष्पं वा । कुप्रत्यये उपसर्गस्य दीर्घत्वम् । सर्वच लगति संगच्छते तत् लिग चितं वा । लगे धातोरुपधाया इत्वम् । बाहुलकात्-खज्जतिगमने विकला भवतीति पङ्गुः । गतिहीना वा कुप्रत्यये खज्जधातोः पङ्गादेशः । स्वगन्धेनान्यगन्धान् हन्तीति हिङ्गुर्वणिग्व्यम् ॥
For Private And Personal Use Only
(३०) मृगयुप्रभृतयः कुप्रत्ययान्ता निपात्यन्ते मृग, देव, मित्र, कुमार, अध्वर इत्येतेषूपपदेषु या प्रापण इत्यस्मात् कुप्रत्ययो भवति । मृगान् याति प्राप्नोतीति मृगयुव्याधः । देवान् विदुषो याति स देवयुधर्मिकः । मित्रान् यातीति मित्रयुकव्यवहारवित् । कुमारावस्थां यातीति कुमारयुः राजपुत्रो वा । अध्वरं यज्ञं यातीत्यध्वर्यु याजकः । अध्वरस्यान्त्यलोपश्च बहुलवचनात् — कोहयति विस्मापयतीति कुहुः । यस्यां चन्द्रो न दृश्यते सामावास्या वा कुहूः । पण्डति गच्छतोति पाण्डुः रङ्गविशेषो राजविशेषो वा । पीलति प्रतिष्ठभ्नोति निरुणद्धि जीवानिति पीलुईस्ती | वृक्षः काणुः परमाणवः पुष्पाणि वा । मंजिः सौत्रो धातुस्तस्मात् कुः । मञ्जति चित्तं प्रसादयतीति मञ्जु शोभनम् । एवं निघण्टु पलाण्डु कर्करेटु करेटु डमरु प्रभृतयः शब्दा अप्यत्रैव द्रष्टव्या आकृतिगणत्वादस्य ॥
1