________________
Shri Mahavir Jain Aradhana Kendra
१२
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
लङ्घिबंह्यो लोपश्च ॥ २९ ॥ लघुः | बहुः ॥ २९ ॥ ऊर्णेीतेर्नुलोपश्च ॥ ३० ॥ ऊरुः ॥ ३० ॥ महति ह्रस्वश्च ॥ ३१ ॥ उरु ॥ ३१ ॥ लिपेः कश्च ॥ ३२ ॥ दिलकुः ॥ ३२ ॥ आङ् परयोः खनिशृभ्यां ङिच्च ॥ ३३॥ आखुः | परशुः ॥३३॥ हरिमितयोर्हुवः ॥ ३४ ॥ हरिद्रुः | मितद्रुः ॥ ३४ ॥ शते च ॥ ३५ ॥ शतद्रुः ॥ ३५ ॥
( २६ ) लंघिहिभ्यां कुरनयोर्नलोपश्च । लङ्घति गन्तुं शक्नोतीति लघुः स्वल्पो वा । अस्यैव बालमूललघ्वसुरालमङ्गुलीनां वालोरत्वमापद्यत इति वार्तिकेन रेफः । रघु राजविशेषः । बंहते वर्धतेऽन्येभ्य इति बहुः।
प्रचुरः सङ्ख्या वा ॥
( ३० ) ऊर्णे त्याच्छादयति या सा ऊरुर्जङ्घा । कुप्रत्यये नुभागलीपः ॥ ( ३१ ) ऊर्णुधातोः कुप्रत्ययस्तस्मिन् नुभागलोप ऊकारस्य ह्रस्वत्वं चऊ त्याच्छादयत्यल्पा नित्युरु महत् ॥
(३२) श्लिष्यति पदार्थैः सह सम्बध्यते स श्लिकुः । परवशो ज्योतिषं वा ॥
( ३३ ) आसमन्तात्खनति भूमिमित्या खुषको वराहो वा । परान् शत्रून शृणाति हिनस्ति येन स परशुः । शस्त्रभेदः कुठारो वा पृषोदरादित्वादकारलोपे पूर्वार्थ एव पर्शुरपि दृश्यते ॥
(३४) हरिणाश्वेन वा द्रवति गच्छतीति हरिदुः । दारुहरिद्रा वा । मितं परिमितं द्रवतीति मितद्रः शोभनगमनो वा ॥
(३) शतधा बहुप्रकारैर्द्रवति गच्छतीति शतद्रुः
: । नदीभेोगङ्गा वा । अच बाहुलकात्केवलादपि द्रुधातोः कुप्रत्ययो दृश्यते । यं द्रवन्ति कार्यार्थं प्राणिनः प्राप्नुवन्तीति स दुर्वृक्षः शाखा वा । द्रवः शाखा अस्मिन् सन्तोति द्रुमो वृक्षः (द्युद्रुभ्यां मः ) इति सूत्रेण मत्वर्थी यो मः प्रत्ययः ॥
For Private And Personal Use Only