________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० १॥
अपदुःसुषु स्थः ॥ २५॥ अपर्छ । दुष्ठु । सुष्टु ॥ २५ ॥
रपेरिचोपधायाः ॥ २६ ॥ रिपुः ॥ २६ ॥ अर्जिशिकम्यमिपसिबाधामृजिपशितुकधुक्दर्घिहकाराश्च॥२७॥ ऋजुः । पशुः । कन्तुः । अन्धुः । पांसुः । बाहुः ॥ २७॥ प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च॥२८॥टथुः। मृदुःभृगुः॥२८॥
(२५) अप, दुः, सु, इत्येतेषूपपदेषु स्थाधातोः कुः । अपतिष्ठतीत्यपष्टु वामभागः प्रतिकूलः पदार्थो वा । निन्दितस्तिष्ठतीति दुष्ठ अविनीतः । सुतिघटतीति मुष्टु शोभनम् । सर्वत्र सुषामादित्वात् षत्वम् ॥
( २६ ) अनिष्टं रपति वदतीति रिपुः शत्रुः । चकारग्रहणात्कुप्रत्यये परे इकारादेश एव समुच्चीयते ॥
(२०) कुप्रयये सति-अयादिप्रकृतीनामृज्यादय आदेशा भवन्ति अर्जयति सञ्चिनोति गुणानिति, ऋजुः कोमलो वा । पश्यति समिति पशुः पान्त येन वा म पशुरग्निः । पश्यति जानाति स्वामिति पशुर्गवादिः । कमधातो. स्तुक । कामयन्ते यं स कन्तुः कामो वा । अमधातोवुक । अमति रुजति गच्छति वेत्यन्धुः कूमो वा। अस्मिन सूत्रे चकारग्रहणाबहुलवचनाद्वा अमधातावुगागमोऽपि भवति ।अमन्तिगच्छन्ति चेष्टन्ते प्राणिनो येन तदम्बु जलम। पंसर्यात नष्टमिव भवतीति पांसुलिवी पंसधातोदीर्घः क्षेत्रार्थ चिरकालात्मञ्चितं गोमयं वा। इत्याद्येवार्थेषु पांशुरिति तालव्यान्तोऽपि शब्दो दृश्यते। बाध्यन्ते विलोड्यन्ते पदार्था याभ्यां तो बाहू भुजौ। प्रायेणाऽयं द्विवचनान्तः ।।
(२८) प्रथ्यादिभ्यः कुः प्रत्ययस्तस्मिन सति प्रथिम्रद्योः सम्प्रसारणं सलोपश्च ! प्रयते कोर्तिवा प्रख्यापयति स पृथराजविशेषो प्रख्यातः पदार्थी वा । मदते म्रदितुं शक्यते स मृदुर्मादकः । कोमलं वा । भृजति तपसा शरीरमिति भृगुऋषिः प्रतापी वा । न्यवादित्वात्कुत्वम् ॥
For Private And Personal Use Only