________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
उणादिकोष। ॥
मन्दिवाशिमथिचतिचङ्ग्यशिकम्य उरच् ॥३८॥ मन्दुरा। वारा । मथुरा । चतुरः । चङ्कुरः । अङ्कुरः ॥ ३८॥
व्यथेः सम्प्रसारणं धः किञ्च ॥ ३९ ॥ विधुरः ॥ ३९ ॥ मकुरदर्दुरौ ॥ ४०॥ मधुरादयश्च ॥ ११॥ मधुरः । कर्बुरः । बन्धुरः।
(३८) मन्दते स्तौति माति वा यस्यां सा मन्दरा । अश्वशाला वा । वाश्यते शब्दं करोतीति वाशुरा रात्रिवी । मति विलोडयतीति मथुरा नगरी वा । ___ चतते याचते स चतुरो दक्षः कुशलो वा । चङ्कः इति सौत्रो धातुः। चङ्कति सर्वता भ्रमति येन स चङ्कुरो रथो वा । अक्यते लक्ष्यते निःसृतं दृश्यते सोऽङ्कुरो वीजोत्पादो वा । अत्र खजूरादिवक्ष्यमाणगणेन ऊर प्रत्ययेऽडकर इयपि । अर्थः स एव ॥
(३६) व्यथते बिभेति यस्मात् स विधुरोऽत्यन्तवियोगः शरीरत्यागो वा । संप्रमारो सति गुणनिषेधाय कित्वम् । बाहुलकात्यकारस्य धकारो न तेन विथुर इत्यपि मिटुं भवति । विथुरश्चौरो दुष्टो वा ॥
(४० ) मरदर्दराबुर चप्रत्ययान्ती निपात्येते । मङ्कतेऽनङ्कगेति येन स मकुरो दर्पणो वा । मङ्कधातोर्नलोपः । बाहुलकाद्धातोरकारभ्योकारे कृते दर्पणार्थ एव मुकुर इत्यपि सिद्धम् । दृणाति विदारयत्युष्णमिति दर्दुरो मेघो मण्डूको वाद्यभेदः पर्वतभेदो वा । उरचि दृधातोर्द्ववचनमभ्यासस्य रुगागमो धातोष्टिलोपश्च निपात्यते ।
(४१. ) मदगुरप्रभृतयः शब्दा उरजन्ता निपात्यन्ते । माद्यति दृष्यतोति मद्गुरो मत्स्यभेदो वा । धातो गागमः कबते वर्णविशेषो भवतीति स कर्बुरः श्वेतो दष्टो वा धातोरुमागमः । बध्नाति माईवेन स बन्धुरो नमः सुन्दरो वा । खजूरादित्वादूरप्रत्यये बन्धूरोपि उक्तार्थ एव । चिनोत्येकी
For Private And Personal Use Only