________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः।
धान्ये नित् ॥ ९॥ अणवः ॥ ९॥
शस्वस्निहित्रप्यसिवसिहनिक्लिदिवन्धिमनिभ्यश्च ॥ १०॥ शरुः।स्वरुः।स्नेहुः। त्रपु। असुः। वसुः।हनुः । क्लेदुः।वन्धुः।मनुः।। १०॥
स्यन्देः सम्प्रसारणं धश्च ॥ ११ ॥ सिन्धुः ॥ ११ ॥ उदेरिञ्चादेः ॥ १२ ॥ इन्दुः ॥ १२॥ ईषेः किञ्च ॥ १३ ॥ इषुः ॥ १३॥
(E) अणन्ति शब्दायन्ते यैस्ताणवोन्नविशेषा वा नित्करणमायदातस्वरार्थम् ।
(१०) अत्र चादुप्रत्ययोनिदिति सम्बन्धः । एवमर्य एव पृथक्पाठः । शृणाति हिनस्ति येति शहरायुधं कोपो वा। स्वर्यन्त उपतप्यन्ते प्राणिनाऽनेनेति स्वर्वजम् । नियति यस्मिन स स्नेहुाधिर्वा । अग्नि प्राप्य यत पते लज्जितमिव भवतीति तत् त्रपु सोमकं रंगं वा। अस्यति प्रक्षिपति वायुमिन्यसुः प्राणः । असुं प्राणं राति ददातीत्यसुरो मेघः । वस्त आच्छादयति दुःखं येन तद्वसु धनं वा । वसन्ति प्राणिनो गेषु ते वसवोऽग्न्यादयोऽटौ। हन्य. तेऽनेनेति हनुः कपोलावयवः प्रहरण मृत्युवी । निद्यत्या करोति चितमिति क्लेदुश्चन्द्रमा वा। प्रेम्णा वधातीति बन्धुः सज्जनो वा । मन्यते चराचरं जगज्जानातीति मनुरीश्वरः मनुतेऽवबुध्यते शास्त्रमिति मनुर्विद्वान राजर्षिः। बहुलवचनात् । विन्दत्यवयवोभवतीति विन्दुः परिमाणं जलादिकणी वा ।
(११) स्यन्दन्ते प्रस्रवन्त्युदकायस्मिन्निति सिन्धुः ॥
(१२) उन्दधातोरुः प्रत्यय आदिवर्णस्येकारादेशश्च । उनतत्याद्रीकरोति पदार्थानितोन्दुश्चन्द्रमाः वा ॥
(१३) अत्र चकारादिच्चेत्यनुवर्तते तेन दोर्घस्य हस्वो भवति । ईपति गच्छति हिनस्ति वा शनिति, इषुर्वाणो वीरो वा । कित्वाद् गुणाऽभावः ।।
For Private And Personal Use Only